🪷 Mahābhārata · Bhīṣma-Parva · Chapter 65
The Book of Bhīṣma · Parva 6 · 33 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 33 Shlokas
MBh 6.65.1
संजय उवाच
व्युषितायां च शर्वर्यामुदिते च दिवाकरे
उभे सेने महाराज युद्धायैव समीयतुः
MBh 6.65.2
अभ्यधावंश्च संक्रुद्धाः परस्परजिगीषवः
ते सर्वे सहिता युद्धे समालोक्य परस्परम्
MBh 6.65.3
पाण्डवा धार्तराष्ट्राश्च राजन्दुर्मन्त्रिते तव
व्यूहौ च व्यूह्य संरब्धाः संप्रयुद्धाः प्रहारिणः
MBh 6.65.4
अरक्षन्मकरव्यूहं भीष्मो राजन्समन्ततः
तथैव पाण्डवा राजन्नरक्षन्व्यूहमात्मनः
MBh 6.65.5
स निर्ययौ रथानीकं पिता देवव्रतस्तव
महता रथवंशेन संवृतो रथिनां वरः
MBh 6.65.6
इतरेतरमन्वीयुर्यथाभागमवस्थिताः
रथिनः पत्तयश्चैव दन्तिनः सादिनस्तथा
MBh 6.65.7
तान्दृष्ट्वा प्रोद्यतान्संख्ये पाण्डवाश्च यशस्विनः
श्येनेन व्यूहराजेन तेनाजय्येन संयुगे
MBh 6.65.8
अशोभत मुखे तस्य भीमसेनो महाबलः
नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नश्च पार्षतः
MBh 6.65.9
शीर्षं तस्याभवद्वीरः सात्यकिः सत्यविक्रमः
विधुन्वन्गाण्डिवं पार्थो ग्रीवायामभवत्तदा
MBh 6.65.10
अक्षौहिण्या समग्रा या वामपक्षोऽभवत्तदा
महात्मा द्रुपदः श्रीमान्सह पुत्रेण संयुगे
MBh 6.65.11
दक्षिणश्चाभवत्पक्षः कैकेयोऽक्षौहिणीपतिः
पृष्ठतो द्रौपदेयाश्च सौभद्रश्चापि वीर्यवान्
MBh 6.65.12
पृष्ठे समभवच्छ्रीमान्स्वयं राजा युधिष्ठिरः
भ्रातृभ्यां सहितो धीमान्यमाभ्यां चारुविक्रमः
MBh 6.65.13
प्रविश्य तु रणे भीमो मकरं मुखतस्तदा
भीष्ममासाद्य संग्रामे छादयामास सायकैः
MBh 6.65.14
ततो भीष्मो महास्त्राणि पातयामास भारत
मोहयन्पाण्डुपुत्राणां व्यूढं सैन्यं महाहवे
MBh 6.65.15
संमुह्यति तदा सैन्ये त्वरमाणो धनंजयः
भीष्मं शरसहस्रेण विव्याध रणमूर्धनि
MBh 6.65.16
परिसंवार्य चास्त्राणि भीष्ममुक्तानि संयुगे
स्वेनानीकेन हृष्टेन युद्धाय समवस्थितः
MBh 6.65.17
ततो दुर्योधनो राजा भारद्वाजमभाषत
पूर्वं दृष्ट्वा वधं घोरं बलस्य बलिनां वरः
भ्रातॄणां च वधं युद्धे स्मरमाणो महारथः
MBh 6.65.18
आचार्य सततं त्वं हि हितकामो ममानघ
वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम्
MBh 6.65.19
देवानपि रणे जेतुं प्रार्थयामो न संशयः
किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान्
MBh 6.65.20
एवमुक्तस्ततो द्रोणस्तव पुत्रेण मारिष
अभिनत्पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः
MBh 6.65.21
सात्यकिस्तु तदा द्रोणं वारयामास भारत
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्
MBh 6.65.22
शैनेयं तु रणे क्रुद्धो भारद्वाजः प्रतापवान्
अविध्यन्निशितैर्बाणैर्जत्रुदेशे हसन्निव
MBh 6.65.23
भीमसेनस्ततः क्रुद्धो भारद्वाजमविध्यत
संरक्षन्सात्यकिं राजन्द्रोणाच्छस्त्रभृतां वरात्
MBh 6.65.24
ततो द्रोणश्च भीष्मश्च तथा शल्यश्च मारिष
भीमसेनं रणे क्रुद्धाश्छादयां चक्रिरे शरैः
MBh 6.65.25
तत्राभिमन्युः संक्रुद्धो द्रौपदेयाश्च मारिष
विव्यधुर्निशितैर्बाणैः सर्वांस्तानुद्यतायुधान्
MBh 6.65.26
भीष्मद्रोणौ च संक्रुद्धावापतन्तौ महाबलौ
प्रत्युद्ययौ शिखण्डी तु महेष्वासो महाहवे
MBh 6.65.27
प्रगृह्य बलवद्वीरो धनुर्जलदनिस्वनम्
अभ्यवर्षच्छरैस्तूर्णं छादयानो दिवाकरम्
MBh 6.65.28
शिखण्डिनं समासाद्य भरतानां पितामहः
अवर्जयत संग्रामे स्त्रीत्वं तस्यानुसंस्मरन्
MBh 6.65.29
ततो द्रोणो महाराज अभ्यद्रवत तं रणे
रक्षमाणस्ततो भीष्मं तव पुत्रेण चोदितः
MBh 6.65.30
शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम्
अवर्जयत संग्रामे युगान्ताग्निमिवोल्बणम्
MBh 6.65.31
ततो बलेन महता पुत्रस्तव विशां पते
जुगोप भीष्ममासाद्य प्रार्थयानो महद्यशः
MBh 6.65.32
तथैव पाण्डवा राजन्पुरस्कृत्य धनंजयम्
भीष्ममेवाभ्यवर्तन्त जये कृत्वा दृढां मतिम्
MBh 6.65.33
तद्युद्धमभवद्घोरं देवानां दानवैरिव
जयं च काङ्क्षतां नित्यं यशश्च परमाद्भुतम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 64
- Next chapter · Bhīṣma-Parva Ch 66 →
Sources and Connected Readings
Continue from these 33 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.65local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷