🪷 Mahābhārata · Bhīṣma-Parva · Chapter 19
The Book of Bhīṣma · Parva 6 · 44 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 44 Shlokas
MBh 6.19.1
धृतराष्ट्र उवाच
अक्षौहिण्यो दशैकां च व्यूढां दृष्ट्वा युधिष्ठिरः
कथमल्पेन सैन्येन प्रत्यव्यूहत पाण्डवः
MBh 6.19.2
यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम्
कथं भीष्मं स कौन्तेयः प्रत्यव्यूहत पाण्डवः
MBh 6.19.3
संजय उवाच
धार्तराष्ट्राण्यनीकानि दृष्ट्वा व्यूढानि पाण्डवः
अभ्यभाषत धर्मात्मा धर्मराजो धनंजयम्
MBh 6.19.4
महर्षेर्वचनात्तात वेदयन्ति बृहस्पतेः
संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून्
MBh 6.19.5
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह
अस्माकं च तथा सैन्यमल्पीयः सुतरां परैः
MBh 6.19.6
एतद्वचनमाज्ञाय महर्षेर्व्यूह पाण्डव
तच्छ्रुत्वा धर्मराजस्य प्रत्यभाषत फल्गुनः
MBh 6.19.7
एष व्यूहामि ते राजन्व्यूहं परमदुर्जयम्
अचलं नाम वज्राख्यं विहितं वज्रपाणिना
MBh 6.19.8
यः स वात इवोद्धूतः समरे दुःसहः परैः
स नः पुरो योत्स्यति वै भीमः प्रहरतां वरः
MBh 6.19.9
तेजांसि रिपुसैन्यानां मृद्नन्पुरुषसत्तमः
अग्रेऽग्रणीर्यास्यति नो युद्धोपायविचक्षणः
MBh 6.19.10
यं दृष्ट्वा पार्थिवाः सर्वे दुर्योधनपुरोगमाः
निवर्तिष्यन्ति संभ्रान्ताः सिंहं क्षुद्रमृगा इव
MBh 6.19.11
तं सर्वे संश्रयिष्यामः प्राकारमकुतोभयम्
भीमं प्रहरतां श्रेष्ठं वज्रपाणिमिवामराः
MBh 6.19.12
न हि सोऽस्ति पुमाँल्लोके यः संक्रुद्धं वृकोदरम्
द्रष्टुमत्युग्रकर्माणं विषहेत नरर्षभम्
MBh 6.19.13
भीमसेनो गदां बिभ्रद्वज्रसारमयीं दृढाम्
चरन्वेगेन महता समुद्रमपि शोषयेत्
MBh 6.19.14
केकया धृष्टकेतुश्च चेकितानश्च वीर्यवान्
एत तिष्ठन्ति सामात्याः प्रेक्षकास्ते नरेश्वर
MBh 6.19.15
धृतराष्ट्रस्य दायादा इति बीभत्सुरब्रवीत्
ब्रुवाणं तु तथा पार्थं सर्वसैन्यानि मारिष
अपूजयंस्तदा वाग्भिरनुकूलाभिराहवे
MBh 6.19.16
एवमुक्त्वा महाबाहुस्तथा चक्रे धनंजयः
व्यूह्य तानि बलान्याशु प्रययौ फल्गुनस्तदा
MBh 6.19.17
संप्रयातान्कुरून्दृष्ट्वा पाण्डवानां महाचमूः
गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत
MBh 6.19.18
भीमसेनोऽग्रणीस्तेषां धृष्टद्युम्नश्च पार्षतः
नकुलः सहदेवश्च धृष्टकेतुश्च वीर्यवान्
MBh 6.19.19
समुद्योज्य ततः पश्चाद्राजाप्यक्षौहिणीवृतः
भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षत पृष्ठतः
MBh 6.19.20
चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती
द्रौपदेयाः ससौभद्राः पृष्ठगोपास्तरस्विनः
MBh 6.19.21
धृष्टद्युम्नश्च पाञ्चाल्यस्तेषां गोप्ता महारथः
सहितः पृतनाशूरै रथमुख्यैः प्रभद्रकैः
MBh 6.19.22
शिखण्डी तु ततः पश्चादर्जुनेनाभिरक्षितः
यत्तो भीष्मविनाशाय प्रययौ भरतर्षभ
MBh 6.19.23
पृष्ठगोपोऽर्जुनस्यापि युयुधानो महारथः
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ
MBh 6.19.24
राजा तु मध्यमानीके कुन्तीपुत्रो युधिष्ठिरः
बृहद्भिः कुञ्जरैर्मत्तैश्चलद्भिरचलैरिव
MBh 6.19.25
अक्षौहिण्या च पाञ्चाल्यो यज्ञसेनो महामनाः
विराटमन्वयात्पश्चात्पाण्डवार्थे पराक्रमी
MBh 6.19.26
तेषामादित्यचन्द्राभाः कनकोत्तमभूषणाः
नानाचिह्नधरा राजन्रथेष्वासन्महाध्वजाः
MBh 6.19.27
समुत्सर्प्य ततः पश्चाद्धृष्टद्युम्नो महारथः
भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षद्युधिष्ठिरम्
MBh 6.19.28
त्वदीयानां परेषां च रथेषु विविधान्ध्वजान्
अभिभूयार्जुनस्यैको ध्वजस्तस्थौ महाकपिः
MBh 6.19.29
पादातास्त्वग्रतोऽगच्छन्नसिशक्त्यृष्टिपाणयः
अनेकशतसाहस्रा भीमसेनस्य रक्षिणः
MBh 6.19.30
वारणा दशसाहस्राः प्रभिन्नकरटामुखाः
शूरा हेममयैर्जालैर्दीप्यमाना इवाचलाः
MBh 6.19.31
क्षरन्त इव जीमूता मदार्द्राः पद्मगन्धिनः
राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः
MBh 6.19.32
भीमसेनो गदां भीमां प्रकर्षन्परिघोपमाम्
प्रचकर्ष महत्सैन्यं दुराधर्षो महामनाः
MBh 6.19.33
तमर्कमिव दुष्प्रेक्ष्यं तपन्तं रश्मिमालिनम्
न शेकुः सर्वतो योधाः प्रतिवीक्षितुमन्तिके
MBh 6.19.34
वज्रो नामैष तु व्यूहो दुर्भिदः सर्वतोमुखः
चापविद्युद्ध्वजो घोरो गुप्तो गाण्डीवधन्वना
MBh 6.19.35
यं प्रतिव्यूह्य तिष्ठन्ति पाण्डवास्तव वाहिनीम्
अजेयो मानुषे लोके पाण्डवैरभिरक्षितः
MBh 6.19.36
संध्यां तिष्ठत्सु सैन्येषु सूर्यस्योदयनं प्रति
प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान्
MBh 6.19.37
विष्वग्वाताश्च वान्त्युग्रा नीचैः शर्करकर्षिणः
रजश्चोद्धूयमानं तु तमसाच्छादयज्जगत्
MBh 6.19.38
पपात महती चोल्का प्राङ्मुखी भरतर्षभ
उद्यन्तं सूर्यमाहत्य व्यशीर्यत महास्वना
MBh 6.19.39
अथ सज्जीयमानेषु सैन्येषु भरतर्षभ
निष्प्रभोऽभ्युदियात्सूर्यः सघोषो भूश्चचाल ह
व्यशीर्यत सनादा च तदा भरतसत्तम
MBh 6.19.40
निर्घाता बहवो राजन्दिक्षु सर्वासु चाभवन्
प्रादुरासीद्रजस्तीव्रं न प्राज्ञायत किंचन
MBh 6.19.41
ध्वजानां धूयमानानां सहसा मातरिश्वना
किङ्किणीजालनद्धानां काञ्चनस्रग्वतां रवैः
MBh 6.19.42
महतां सपताकानामादित्यसमतेजसाम्
सर्वं झणझणीभूतमासीत्तालवनेष्विव
MBh 6.19.43
एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः
व्यवस्थिताः प्रतिव्यूह्य तव पुत्रस्य वाहिनीम्
MBh 6.19.44
स्रंसन्त इव मज्जानो योधानां भरतर्षभ
दृष्ट्वाग्रतो भीमसेनं गदापाणिमवस्थितम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 18
- Next chapter · Bhīṣma-Parva Ch 20 →
Sources and Connected Readings
Continue from these 44 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.19local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷