🪷 Mahābhārata · Bhīṣma-Parva · Chapter 13

The Book of Bhīṣma · Parva 6 · 50 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 50 Shlokas

MBh 6.13.1
संजय उवाच उत्तरेषु तु कौरव्य द्वीपेषु श्रूयते कथा यथाश्रुतं महाराज ब्रुवतस्तन्निबोध मे
MBh 6.13.2
घृततोयः समुद्रोऽत्र दधिमण्डोदकोऽपरः सुरोदः सागरश्चैव तथान्यो घर्मसागरः
MBh 6.13.3
परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप सर्वतश्च महाराज पर्वतैः परिवारिताः
MBh 6.13.4
गौरस्तु मध्यमे द्वीपे गिरिर्मानःशिलो महान् पर्वतः पश्चिमः कृष्णो नारायणनिभो नृप
MBh 6.13.5
तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः प्रजापतिमुपासीनः प्रजानां विदधे सुखम्
MBh 6.13.6
कुशद्वीपे कुशस्तम्बो मध्ये जनपदस्य ह संपूज्यते शल्मलिश्च द्वीपे शाल्मलिके नृप
MBh 6.13.7
क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः संपूज्यते महाराज चातुर्वर्ण्येन नित्यदा
MBh 6.13.8
गोमन्दः पर्वतो राजन्सुमहान्सर्वधातुमान् यत्र नित्यं निवसति श्रीमान्कमललोचनः मोक्षिभिः संस्तुतो नित्यं प्रभुर्नारायणो हरिः
MBh 6.13.9
कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः सुधामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः
MBh 6.13.10
द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः
MBh 6.13.11
षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाः तेषामन्तरविष्कम्भो द्विगुणः प्रविभागशः
MBh 6.13.12
औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् तृतीयं वै रथाकारं चतुर्थं पालनं स्मृतम्
MBh 6.13.13
धृतिमत्पञ्चमं वर्षं षष्ठं वर्षं प्रभाकरम् सप्तमं कापिलं वर्षं सप्तैते वर्षपुञ्जकाः
MBh 6.13.14
एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर विहरन्ति रमन्ते च न तेषु म्रियते जनः
MBh 6.13.15
न तेषु दस्यवः सन्ति म्लेच्छजात्योऽपि वा नृप गौरप्रायो जनः सर्वः सुकुमारश्च पार्थिव
MBh 6.13.16
अवशिष्टेषु वर्षेषु वक्ष्यामि मनुजेश्वर यथाश्रुतं महाराज तदव्यग्रमनाः शृणु
MBh 6.13.17
क्रौञ्चद्वीपे महाराज क्रौञ्चो नाम महागिरिः क्रौञ्चात्परो वामनको वामनादन्धकारकः
MBh 6.13.18
अन्धकारात्परो राजन्मैनाकः पर्वतोत्तमः मैनाकात्परतो राजन्गोविन्दो गिरिरुत्तमः
MBh 6.13.19
गोविन्दात्तु परो राजन्निबिडो नाम पर्वतः परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन
MBh 6.13.20
देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः
MBh 6.13.21
मनोनुगात्परश्चोष्णो देशः कुरुकुलोद्वह उष्णात्परः प्रावरकः प्रावरादन्धकारकः
MBh 6.13.22
अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः
MBh 6.13.23
सिद्धचारणसंकीर्णो गौरप्रायो जनाधिप एते देशा महाराज देवगन्धर्वसेविताः
MBh 6.13.24
पुष्करे पुष्करो नाम पर्वतो मणिरत्नमान् तत्र नित्यं निवसति स्वयं देवः प्रजापतिः
MBh 6.13.25
तं पर्युपासते नित्यं देवाः सर्वे महर्षिभिः वाग्भिर्मनोनुकूलाभिः पूजयन्तो जनाधिप
MBh 6.13.26
जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधान्युत द्वीपेषु तेषु सर्वेषु प्रजानां कुरुनन्दन
MBh 6.13.27
विप्राणां ब्रह्मचर्येण सत्येन च दमेन च आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः
MBh 6.13.28
एको जनपदो राजन्द्वीपेष्वेतेषु भारत उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते
MBh 6.13.29
ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः द्वीपानेतान्महाराज रक्षंस्तिष्ठति नित्यदा
MBh 6.13.30
स राजा स शिवो राजन्स पिता स पितामहः गोपायति नरश्रेष्ठ प्रजाः सजडपण्डिताः
MBh 6.13.31
भोजनं चात्र कौरव्य प्रजाः स्वयमुपस्थितम् सिद्धमेव महाराज भुञ्जते तत्र नित्यदा
MBh 6.13.32
ततः परं समा नाम दृश्यते लोकसंस्थितिः चतुरश्रा महाराज त्रयस्त्रिंशत्तु मण्डलम्
MBh 6.13.33
तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसंमताः दिग्गजा भरतश्रेष्ठ वामनैरावतादयः सुप्रतीकस्तथा राजन्प्रभिन्नकरटामुखः
MBh 6.13.34
तस्याहं परिमाणं तु न संख्यातुमिहोत्सहे असंख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा
MBh 6.13.35
तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव च असंबाधा महाराज तान्निगृह्णन्ति ते गजाः
MBh 6.13.36
पुष्करैः पद्मसंकाशैर्वर्ष्मवद्भिर्महाप्रभैः ते शनैः पुनरेवाशु वायून्मुञ्चन्ति नित्यशः
MBh 6.13.37
श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः
MBh 6.13.38
धृतराष्ट्र उवाच परो वै विस्तरोऽत्यर्थं त्वया संजय कीर्तितः दर्शितं द्वीपसंस्थानमुत्तरं ब्रूहि संजय
MBh 6.13.39
संजय उवाच उक्ता द्वीपा महाराज ग्रहान्मे शृणु तत्त्वतः स्वर्भानुः कौरवश्रेष्ठ यावदेष प्रभावतः
MBh 6.13.40
परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै
MBh 6.13.41
परिणाहेन षट्त्रिंशद्विपुलत्वेन चानघ षष्टिमाहुः शतान्यस्य बुधाः पौराणिकास्तथा
MBh 6.13.42
चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत्तु मण्डलम् एकोनषष्टिर्वैपुल्याच्छीतरश्मेर्महात्मनः
MBh 6.13.43
सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन विष्कम्भेण ततो राजन्मण्डलं त्रिंशतं समम्
MBh 6.13.44
अष्टपञ्चाशतं राजन्विपुलत्वेन चानघ श्रूयते परमोदारः पतंगोऽसौ विभावसुः एतत्प्रमाणमर्कस्य निर्दिष्टमिह भारत
MBh 6.13.45
स राहुश्छादयत्येतौ यथाकालं महत्तया चन्द्रादित्यौ महाराज संक्षेपोऽयमुदाहृतः
MBh 6.13.46
इत्येतत्ते महाराज पृच्छतः शास्त्रचक्षुषा सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि
MBh 6.13.47
यथादृष्टं मया प्रोक्तं सनिर्याणमिदं जगत् तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति
MBh 6.13.48
श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम् श्रीमान्भवति राजन्यः सिद्धार्थः साधुसंमतः आयुर्बलं च वीर्यं च तस्य तेजश्च वर्धते
MBh 6.13.49
यः शृणोति महीपाल पर्वणीदं यतव्रतः प्रीयन्ते पितरस्तस्य तथैव च पितामहाः
MBh 6.13.50
इदं तु भारतं वर्षं यत्र वर्तामहे वयम् पूर्वं प्रवर्तते पुण्यं तत्सर्वं श्रुतवानसि

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 50 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.13local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷