🪷 Mahābhārata · Bhīṣma-Parva · Chapter 10

The Book of Bhīṣma · Parva 6 · 74 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 74 Shlokas

MBh 6.10.1
धृतराष्ट्र उवाच यदिदं भारतं वर्षं यत्रेदं मूर्छितं बलम् यत्रातिमात्रं लुब्धोऽयं पुत्रो दुर्योधनो मम
MBh 6.10.2
यत्र गृद्धाः पाण्डुसुता यत्र मे सज्जते मनः एतन्मे तत्त्वमाचक्ष्व कुशलो ह्यसि संजय
MBh 6.10.3
संजय उवाच न तत्र पाण्डवा गृद्धाः शृणु राजन्वचो मम गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः
MBh 6.10.4
अपरे क्षत्रियाश्चापि नानाजनपदेश्वराः ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम्
MBh 6.10.5
अत्र ते वर्णयिष्यामि वर्षं भारत भारतम् प्रियमिन्द्रस्य देवस्य मनोर्वैवस्वतस्य च
MBh 6.10.6
पृथोश्च राजन्वैन्यस्य तथेक्ष्वाकोर्महात्मनः ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च
MBh 6.10.7
तथैव मुचुकुन्दस्य शिबेरौशीनरस्य च ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा
MBh 6.10.8
अन्येषां च महाराज क्षत्रियाणां बलीयसाम् सर्वेषामेव राजेन्द्र प्रियं भारत भारतम्
MBh 6.10.9
तत्ते वर्षं प्रवक्ष्यामि यथाश्रुतमरिंदम शृणु मे गदतो राजन्यन्मां त्वं परिपृच्छसि
MBh 6.10.10
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः
MBh 6.10.11
तेषां सहस्रशो राजन्पर्वतास्तु समीपतः अभिज्ञाताः सारवन्तो विपुलाश्चित्रसानवः
MBh 6.10.12
अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो
MBh 6.10.13
नदीः पिबन्ति बहुला गङ्गां सिन्धुं सरस्वतीम् गोदावरीं नर्मदां च बाहुदां च महानदीम्
MBh 6.10.14
शतद्रुं चन्द्रभागां च यमुनां च महानदीम् दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम्
MBh 6.10.15
नदीं वेत्रवतीं चैव कृष्णवेणां च निम्नगाम् इरावतीं वितस्तां च पयोष्णीं देविकामपि
MBh 6.10.16
वेदस्मृतिं वेतसिनीं त्रिदिवामिष्कुमालिनीम् करीषिणीं चित्रवहां चित्रसेनां च निम्नगाम्
MBh 6.10.17
गोमतीं धूतपापां च वन्दनां च महानदीम् कौशिकीं त्रिदिवां कृत्यां विचित्रां लोहतारिणीम्
MBh 6.10.18
रथस्थां शतकुम्भां च सरयूं च नरेश्वर चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा
MBh 6.10.19
शतावरीं पयोष्णीं च परां भैमरथीं तथा कावेरीं चुलुकां चापि वापीं शतबलामपि
MBh 6.10.20
निचीरां महितां चापि सुप्रयोगां नराधिप पवित्रां कुण्डलां सिन्धुं वाजिनीं पुरमालिनीम्
MBh 6.10.21
पूर्वाभिरामां वीरां च भीमामोघवतीं तथा पलाशिनीं पापहरां महेन्द्रां पिप्पलावतीम्
MBh 6.10.22
पारिषेणामसिक्नीं च सरलां भारमर्दिनीम् पुरुहीं प्रवरां मेनां मोघां घृतवतीं तथा
MBh 6.10.23
धूमत्यामतिकृष्णां च सूचीं छावीं च कौरव सदानीरामधृष्यां च कुशधारां महानदीम्
MBh 6.10.24
शशिकान्तां शिवां चैव तथा वीरवतीमपि वास्तुं सुवास्तुं गौरीं च कम्पनां सहिरण्वतीम्
MBh 6.10.25
हिरण्वतीं चित्रवतीं चित्रसेनां च निम्नगाम् रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम्
MBh 6.10.26
उपेन्द्रां बहुलां चैव कुचरामम्बुवाहिनीम् वैनन्दीं पिञ्जलां वेण्णां तुङ्गवेणां महानदीम्
MBh 6.10.27
विदिशां कृष्णवेण्णां च ताम्रां च कपिलामपि शलुं सुवामां वेदाश्वां हरिस्रावां महापगाम्
MBh 6.10.28
शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम् कौशिकीं निम्नगां शोणां बाहुदामथ चन्दनाम्
MBh 6.10.29
दुर्गामन्तःशिलां चैव ब्रह्ममेध्यां बृहद्वतीम् चरक्षां महिरोहीं च तथा जम्बुनदीमपि
MBh 6.10.30
सुनसां तमसां दासीं त्रसामन्यां वराणसीम् लोलोद्धृतकरां चैव पूर्णाशां च महानदीम्
MBh 6.10.31
मानवीं वृषभां चैव महानद्यो जनाधिप सदानिरामयां वृत्यां मन्दगां मन्दवाहिनीम्
MBh 6.10.32
ब्रह्माणीं च महागौरीं दुर्गामपि च भारत चित्रोपलां चित्रबर्हां मञ्जुं मकरवाहिनीम्
MBh 6.10.33
मन्दाकिनीं वैतरणीं कोकां चैव महानदीम् शुक्तिमतीमरण्यां च पुष्पवेण्युत्पलावतीम्
MBh 6.10.34
लोहित्यां करतोयां च तथैव वृषभङ्गिनीम् कुमारीमृषिकुल्यां च ब्रह्मकुल्यां च भारत
MBh 6.10.35
सरस्वतीः सुपुण्याश्च सर्वा गङ्गाश्च मारिष विश्वस्य मातरः सर्वाः सर्वाश्चैव महाबलाः
MBh 6.10.36
तथा नद्यस्त्वप्रकाशाः शतशोऽथ सहस्रशः इत्येताः सरितो राजन्समाख्याता यथास्मृति
MBh 6.10.37
अत ऊर्ध्वं जनपदान्निबोध गदतो मम तत्रेमे कुरुपाञ्चालाः शाल्वमाद्रेयजाङ्गलाः
MBh 6.10.38
शूरसेनाः कलिङ्गाश्च बोधा मौकास्तथैव च मत्स्याः सुकुट्यः सौबल्याः कुन्तलाः काशिकोशलाः
MBh 6.10.39
चेदिवत्साः करूषाश्च भोजाः सिन्धुपुलिन्दकाः उत्तमौजा दशार्णाश्च मेकलाश्चोत्कलैः सह
MBh 6.10.40
पाञ्चालाः कौशिजाश्चैव एकपृष्ठा युगंधराः सौधा मद्रा भुजिङ्गाश्च काशयोऽपरकाशयः
MBh 6.10.41
जठराः कुक्कुशाश्चैव सुदाशार्णाश्च भारत कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः
MBh 6.10.42
गोविन्दा मन्दकाः षण्डा विदर्भानूपवासिकाः अश्मकाः पांसुराष्ट्राश्च गोपराष्ट्राः पनीतकाः
MBh 6.10.43
आदिराष्ट्राः सुकुट्टाश्च बलिराष्ट्रं च केवलम् वानरास्याः प्रवाहाश्च वक्रा वक्रभयाः शकाः
MBh 6.10.44
विदेहका मागधाश्च सुह्माश्च विजयास्तथा अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च
MBh 6.10.45
मल्लाः सुदेष्णाः प्राहूतास्तथा माहिषकार्षिकाः वाहीका वाटधानाश्च आभीराः कालतोयकाः
MBh 6.10.46
अपरन्ध्राश्च शूद्राश्च पह्लवाश्चर्मखण्डिकाः अटवीशबराश्चैव मरुभौमाश्च मारिष
MBh 6.10.47
उपावृश्चानुपावृश्चसुराष्ट्राः केकयास्तथा कुट्टापरान्ता द्वैधेयाः काक्षाः सामुद्रनिष्कुटाः
MBh 6.10.48
अन्ध्राश्च बहवो राजन्नन्तर्गिर्यास्तथैव च बहिर्गिर्याङ्गमलदा मागधा मानवर्जकाः
MBh 6.10.49
मह्युत्तराः प्रावृषेया भार्गवाश्च जनाधिप पुण्ड्रा भार्गाः किराताश्च सुदोष्णाः प्रमुदास्तथा
MBh 6.10.50
शका निषादा निषधास्तथैवानर्तनैरृताः दुगूलाः प्रतिमत्स्याश्च कुशलाः कुनटास्तथा
MBh 6.10.51
तीरग्राहास्तरतोया राजिका रस्यकागणाः तिलकाः पारसीकाश्च मधुमन्तः प्रकुत्सकाः
MBh 6.10.52
काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा अभीसारा कुलूताश्च शैवला बाह्लिकास्तथा
MBh 6.10.53
दर्वीकाः सकचा दर्वा वातजामरथोरगाः बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः
MBh 6.10.54
वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा वनायवो दशापार्श्वा रोमाणः कुशबिन्दवः
MBh 6.10.55
कच्छा गोपालकच्छाश्च लाङ्गलाः परवल्लकाः किराता बर्बराः सिद्धा विदेहास्ताम्रलिङ्गकाः
MBh 6.10.56
ओष्ट्राः पुण्ड्राः ससैरन्ध्राः पार्वतीयाश्च मारिष अथापरे जनपदा दक्षिणा भरतर्षभ
MBh 6.10.57
द्रविडाः केरलाः प्राच्या भूषिका वनवासिनः उन्नत्यका माहिषका विकल्पा मूषकास्तथा
MBh 6.10.58
कर्णिकाः कुन्तिकाश्चैव सौद्भिदा नलकालकाः कौकुट्टकास्तथा चोलाः कोङ्कणा मालवाणकाः
MBh 6.10.59
समङ्गाः कोपनाश्चैव कुकुराङ्गदमारिषाः ध्वजिन्युत्सवसंकेतास्त्रिगर्ताः सर्वसेनयः
MBh 6.10.60
त्र्यङ्गाः केकरकाः प्रोष्ठाः परसंचरकास्तथा तथैव विन्ध्यपुलकाः पुलिन्दाः कल्कलैः सह
MBh 6.10.61
मालका मल्लकाश्चैव तथैवापरवर्तकाः कुलिन्दाः कुलकाश्चैव करण्ठाः कुरकास्तथा
MBh 6.10.62
मूषका स्तनबालाश्च सतियः पत्तिपञ्जकाः आदिदायाः सिरालाश्च स्तूबका स्तनपास्तथा
MBh 6.10.63
हृषीविदर्भाः कान्तीकास्तङ्गणाः परतङ्गणाः उत्तराश्चापरे म्लेच्छा जना भरतसत्तम
MBh 6.10.64
यवनाश्च सकाम्बोजा दारुणा म्लेच्छजातयः सक्षद्द्रुहः कुन्तलाश्च हूणाः पारतकैः सह
MBh 6.10.65
तथैव मरधाश्चीनास्तथैव दशमालिकाः क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च
MBh 6.10.66
शूद्राभीराथ दरदाः काश्मीराः पशुभिः सह खशिकाश्च तुखाराश्च पल्लवा गिरिगह्वराः
MBh 6.10.67
आत्रेयाः सभरद्वाजास्तथैव स्तनयोषिकाः औपकाश्च कलिङ्गाश्च किरातानां च जातयः
MBh 6.10.68
तामरा हंसमार्गाश्च तथैव करभञ्जकाः उद्देशमात्रेण मया देशाः संकीर्तिताः प्रभो
MBh 6.10.69
यथागुणबलं चापि त्रिवर्गस्य महाफलम् दुह्येद्धेनुः कामधुक्च भूमिः सम्यगनुष्ठिता
MBh 6.10.70
तस्यां गृध्यन्ति राजानः शूरा धर्मार्थकोविदाः ते त्यजन्त्याहवे प्राणान्रसागृद्धास्तरस्विनः
MBh 6.10.71
देवमानुषकायानां कामं भूमिः परायणम् अन्योन्यस्यावलुम्पन्ति सारमेया इवामिषम्
MBh 6.10.72
राजानो भरतश्रेष्ठ भोक्तुकामा वसुंधराम् न चापि तृप्तिः कामानां विद्यते चेह कस्यचित्
MBh 6.10.73
तस्मात्परिग्रहे भूमेर्यतन्ते कुरुपाण्डवाः साम्ना दानेन भेदेन दण्डेनैव च पार्थिव
MBh 6.10.74
पिता माता च पुत्रश्च खं द्यौश्च नरपुंगव भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शिनी

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 74 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.10local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷