🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 65

The Book of the Horse-Sacrifice · Parva 14 · 29 shlokas in canonical Devanāgarī Sanskrit

Mahābhārata Detail Source-Anchor Spine

This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.

MBh 14.65local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

The Devanāgarī Yathārtha · 29 Shlokas

MBh 14.65.1
[व] एतस्मिन्न एव काले तु वासुदेवॊ ऽपि वीर्यवान उपायाद वृष्णिभिः सार्धं पुरं वारणसाह्वयम
MBh 14.65.2
समयं वाजिमेधस्य विदित्वा पुरुषैषभः यथॊक्तॊ धर्मपुत्रेण वरजन स सवपुरीं परति
MBh 14.65.3
रौक्मिणेयेन सहितॊ युयुधानेन चैव ह चारु देष्णेन साम्बेन गदेन कृतवर्मणा
MBh 14.65.4
सारणेन च वीरेण निशठेनॊल्मुकेन च बलदेवं पुरस्कृत्य सुभद्रा सहितस तदा
MBh 14.65.5
दरौपदीम उत्तरां चैव पृथां चाप्य अवलॊककः समाश्वासयितुं चापि कषत्रिया निहतेश्वराः
MBh 14.65.6
तान आगतान समीक्ष्यैव धृतराष्ट्रॊ महीपतिः परत्यगृह्णाद यथान्यायं विदुरश चमहा मनाः
MBh 14.65.7
तत्रैव नयवसत कृष्णः सवर्चितः पुरुषर्षभः विरुरेण महातेजास तथैव च युयुत्सुना
MBh 14.65.8
वसत्सु वृष्णिवीरेण्षु तत्राथ जनमेजय जज्ञे तव पिता राजन परिक्षित परवीरहा
MBh 14.65.9
स तु राजा महाराज बरह्मास्त्रेणाभिपीडितः शवॊ बभूव निश्चेष्टॊ हर्षशॊकविवर्धनः
MBh 14.65.10
हृष्टानां सिंहनादेन जनानां तत्र निस्वनः आविश्य परदिशः सर्वाः पुनर एव वयुपारमत
MBh 14.65.11
ततः सॊ ऽतित्वरः कृष्णॊ विवेशान्तःपुरं तदा युयुधान दवितीयॊ वै वयथितेन्द्रिय मानसः
MBh 14.65.12
ततस तवरितम आयान्तीं ददर्श सवां पितृष्वसाम करॊशन्तीम अभिधावेति वासुदेवं पुनः पुनः
MBh 14.65.13
पृष्ठतॊ दरौपदीं चैव सुभद्रां च यशस्विनीम स विक्रॊशं स करुणं बान्धवानां सत्रियॊ नृप
MBh 14.65.14
ततः कृष्णं समासाद्य कुन्ती राजसुता तदा परॊवाच राजशार्दूल बाष्पगद्गदया गिरा
MBh 14.65.15
वासुदेव महाबाहॊ सुप्रजा देवकी तवया तवं नॊ गतिः परतिष्ठा च तवद आयत्तम इदं कुलम
MBh 14.65.16
यदुप्रवीर यॊ ऽयं ते सवस्रीयस्यात्मजः परभॊ अश्वत्थाम्ना हतॊ जातस तम उज्जीवय केशव
MBh 14.65.17
तवया हय एतत परतिज्ञातम ऐषीके यदुनन्दन अहं संजीवयिष्यामि मृतं जातम इति परभॊ
MBh 14.65.18
सॊ ऽयं जातॊ मृतस तात पश्यैनं पुरुषर्षभ उत्तरां च सुभद्रांच दरौपदीं मां चमाधव
MBh 14.65.19
धर्मपुत्रं च भीमं च फल्गुनं नकुलं तथा सहदेवं च दुर्धर्ष सर्वान नस तरातुम अर्हसि
MBh 14.65.20
अस्मिन पराणाः समायत्ताः पाण्डवानां ममैव च पाण्डॊश च पिण्डॊ दाशार्ह तथैव शवशुरस्य मे
MBh 14.65.21
अभिमन्यॊश च भद्रं ते परियस्य सदृशस्य च परियम उत्पादयाद्य तवं परेतस्यापि जनार्दन
MBh 14.65.22
उत्तरा हि परियॊक्तं वै कथयत्य अरिसूदन अभिमन्यॊर वचः कृष्ण परियत्वात ते न संशयः
MBh 14.65.23
अब्रवीत किल दाशार्ह वैराटीम आर्जुनिः पुरा मातुलस्य कुलं भद्रे तव पुत्रॊ गमिष्यति
MBh 14.65.24
गत्वा वृष्ण्यन्धककुलं धनुर्वेदं गरहीष्यति अस्त्राणि च विचित्राणि नीतिशास्त्रं च केवलम
MBh 14.65.25
इत्य एतत परणयात तात सौभद्रः परवीरहा कथयाम आस दुर्धर्षस तथा चैत्न न संशयः
MBh 14.65.26
तास तवां वयं परणम्येह याचामॊ मधुसूदन कुलस्यास्य हितार्थं तवं कुरु कल्याणम उत्तमम
MBh 14.65.27
एवम उक्त्वा तु वार्ष्णेयं पृथा पृथुल लॊचना उच्छ्रित्य बाहू दुःखार्ता ताश चान्याः परापतन भुवि
MBh 14.65.28
अब्रुवंश च महाराज सर्वाः सास्राविलेक्षणाः सवस्रीयॊ वासुदेवस्य मृतॊ जात इति परभॊ
MBh 14.65.29
एवम उक्ते ततः कुन्तीं परत्यगृह्णाज जनार्दनः भूमौ निपतितां चैनां सान्त्वयाम आस भारत

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷