🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 32

The Book of the Horse-Sacrifice · Parva 14 · 25 shlokas in canonical Devanāgarī Sanskrit

Mahābhārata Detail Source-Anchor Spine

This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.

MBh 14.32local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

The Devanāgarī Yathārtha · 25 Shlokas

MBh 14.32.1
[बर] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम बराह्मणस्य च संवादं जनकस्य च भामिनि
MBh 14.32.2
बराह्मणं जनकॊ राजा सन्नं कस्मिंश चिद आगमे विषये मे न वस्तव्यम इति शिष्ट्य अर्थम अब्रवीत
MBh 14.32.3
इत्य उक्तः परत्युवाचाथ बराह्मणॊ राजसत्तमम आचक्ष्व विषयं राजन यावांस तव वशे सथितः
MBh 14.32.4
सॊ ऽनयस्य विषये राज्ञॊ वस्तुम इच्छाम्य अहं विभॊ वचस ते कर्तुम इच्छामि यथाशास्त्रं महीपते
MBh 14.32.5
इत्य उक्तः स तदा राजा बराह्मणेन यशस्विना मुहुर उष्णं च निःश्वस्य न स तं परत्यभाषत
MBh 14.32.6
तम आसीनं धयायमानं राजानम अमितौजसम कश्मलं सहसागच्छद भानुमन्तम इव गरहः
MBh 14.32.7
समाश्वास्य ततॊ राजा वयपेते कश्मले तदा ततॊ मुहूर्ताद इव तं बराह्मणं वाक्यम अब्रवीत
MBh 14.32.8
पितृपैतामहे राज्ये वश्ये जनपदे सति विषयं नाधिगच्छामि विचिन्वन पृथिवीम इमाम
MBh 14.32.9
नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया नाध्यगच्छं यदा तस्यां सवप्रजा मार्गिता मया
MBh 14.32.10
नाध्यगच्छं यदा तासु तदा मे कश्मलॊ ऽभवत ततॊ मे कश्मलस्यान्ते मतिः पुनर उपस्थिता
MBh 14.32.11
तया न विषयं मन्ये सर्वॊ वा विषयॊ मम [] आत्मापि चायं न मम सर्वा वा पृथिवी मम उष्यतां यावद उत्साहॊ भुज्यतां यावद इष्यते
MBh 14.32.12
पितृपैतामहे राज्ये वश्ये जनपदे सति बरूहि कां बुद्धिम आस्थाय ममत्वं वर्जितं तवया
MBh 14.32.13
कां वा बुद्धिं विनिश्चित्य सर्वॊ वै विषयस तव नावैषि विषयं येन सर्वॊ वा विषयस तव
MBh 14.32.14
[ज] अन्तवन्त इहारम्भा विदिता सर्वकर्मसु नाध्यगच्छम अहं यस्मान ममेदम इति यद भवेत
MBh 14.32.15
कस्येदम इति कस्य सवम इति वेद वचस तथा नाध्यगच्छम अहं बुद्ध्या ममेदम इति यद भवेत
MBh 14.32.16
एतां बुद्धिं विनिश्चित्य ममत्वं वर्जितं मया शृणु बुद्धिं तु यां जञात्वा सर्वत्र विषयॊ मम
MBh 14.32.17
नाहम आत्मार्थम इच्छामि गन्धान घराणगतान अपि तस्मान मे निर्जिता भूमिर वशे तिष्ठति नित्यदा
MBh 14.32.18
नाहम आत्मार्थम इच्छामि रसान आस्ये ऽपि वर्ततः आपॊ मे निर्जितास तस्माद वशे तिष्ठन्ति नित्यदा
MBh 14.32.19
नाहम आत्मार्थम इच्छामि रूपं जयॊतिश च चक्षुषा तस्मान मे निर्जितं जयॊतिर वशे तिष्ठति नित्यदा
MBh 14.32.20
नाहम आत्मार्थम इच्छामि सपर्शांस तवचि गताश च ये तस्मान मे निर्जितॊ वायुर वशे तिष्ठति नित्यदा
MBh 14.32.21
नाहम आत्मार्थम इच्छामि शब्दाञ शरॊत्रगतान अपि तस्मान मे निर्जिताः शब्दा वशे तिष्ठन्ति नित्यदा
MBh 14.32.22
नाहम आत्मार्थम इच्छामि मनॊ नित्यं मनॊ ऽनतरे मनॊ मे निर्जितं तस्माद वशे तिष्ठति नित्यदा
MBh 14.32.23
देवेभ्यश च पितृभ्यश च भूतेभ्यॊ ऽतिथिभिः सह इत्य अर्थं सर्व एवेमे समारम्भा भवन्ति वै
MBh 14.32.24
ततः परहस्य जनकं बराह्मणः पुनर अब्रवीत तवज जिज्ञासार्थम अद्येह विद्धि मां धर्मम आगतम
MBh 14.32.25
तवम अस्य बरह्म नाभस्य बुद्ध्यारस्यानिवर्तिनः सत्त्वनेमि निरुद्धस्य चक्रस्यैकः परवर्तकः

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷