🪷 Mahābhārata · Aśvamedhika-Parva · Chapter 25

The Book of the Horse-Sacrifice · Parva 14 · 17 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 17 Shlokas

MBh 14.25.1
ब्राह्मण उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् चातुर्होत्रविधानस्य विधानमिह यादृशम्
MBh 14.25.2
तस्य सर्वस्य विधिवद्विधानमुपदेक्ष्यते शृणु मे गदतो भद्रे रहस्यमिदमुत्तमम्
MBh 14.25.3
करणं कर्म कर्ता च मोक्ष इत्येव भामिनि चत्वार एते होतारो यैरिदं जगदावृतम्
MBh 14.25.4
होतॄणां साधनं चैव शृणु सर्वमशेषतः घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् मनो बुद्धिश्च सप्तैते विज्ञेया गुणहेतवः
MBh 14.25.5
गन्धो रसश्च रूपं च शब्दः स्पर्शश्च पञ्चमः मन्तव्यमथ बोद्धव्यं सप्तैते कर्महेतवः
MBh 14.25.6
घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः
MBh 14.25.7
स्वगुणं भक्षयन्त्येते गुणवन्तः शुभाशुभम् अहं च निर्गुणोऽत्रेति सप्तैते मोक्षहेतवः
MBh 14.25.8
विदुषां बुध्यमानानां स्वं स्वं स्थानं यथाविधि गुणास्ते देवताभूताः सततं भुञ्जते हविः
MBh 14.25.9
अदन्ह्यविद्वानन्नानि ममत्वेनोपपद्यते आत्मार्थं पाचयन्नित्यं ममत्वेनोपहन्यते
MBh 14.25.10
अभक्ष्यभक्षणं चैव मद्यपानं च हन्ति तम् स चान्नं हन्ति तच्चान्नं स हत्वा हन्यते बुधः
MBh 14.25.11
अत्ता ह्यन्नमिदं विद्वान्पुनर्जनयतीश्वरः स चान्नाज्जायते तस्मिन्सूक्ष्मो नाम व्यतिक्रमः
MBh 14.25.12
मनसा गम्यते यच्च यच्च वाचा निरुद्यते श्रोत्रेण श्रूयते यच्च चक्षुषा यच्च दृश्यते
MBh 14.25.13
स्पर्शेन स्पृश्यते यच्च घ्राणेन घ्रायते च यत् मनःषष्ठानि संयम्य हवींष्येतानि सर्वशः
MBh 14.25.14
गुणवत्पावको मह्यं दीप्यते हव्यवाहनः योगयज्ञः प्रवृत्तो मे ज्ञानब्रह्ममनोद्भवः प्राणस्तोत्रोऽपानशस्त्रः सर्वत्यागसुदक्षिणः
MBh 14.25.15
कर्मानुमन्ता ब्रह्मा मे कर्ताध्वर्युः कृतस्तुतिः कृतप्रशास्ता तच्छास्त्रमपवर्गोऽस्य दक्षिणा
MBh 14.25.16
ऋचश्चाप्यत्र शंसन्ति नारायणविदो जनाः नारायणाय देवाय यदबध्नन्पशून्पुरा
MBh 14.25.17
तत्र सामानि गायन्ति तानि चाहुर्निदर्शनम् देवं नारायणं भीरु सर्वात्मानं निबोध मे

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 17 source-pinned Devanāgarī addresses to Aśvamedhika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 14.25local chapter route · Aśvamedhika-ParvaAśvamedhika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷