🪷 Mahābhārata · Āśramavāsika-Parva · Chapter 5
The Book of Hermitage Residence · Parva 15 · 23 shlokas in canonical Devanāgarī Sanskrit
Mahābhārata Detail Source-Anchor Spine
This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.
MBh 15.5local chapter route · Āśramavāsika-ParvaĀśramavāsika-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
The Devanāgarī Yathārtha · 23 Shlokas
MBh 15.5.1
[धृ]
विदितं भवताम एतद यथावृत्तः कुरु कषयः
ममापराधात तत सर्वम इति जञेयं तु कौरवाः
MBh 15.5.2
यॊ ऽहं दुष्टमतिं मूढं जञातीनां भयवर्धनम
दुर्यॊधनं कौरवाणाम आधिपत्ये ऽभयषेचयम
MBh 15.5.3
यच चाहं वासुदेवस्य वाक्यं नाश्रौषम अर्थवत
वध्यतां साध्व अयं पापः सामात्य इति दुर्मतिः
MBh 15.5.4
पुत्रस्नेहाभिभूतश च हितमुक्तॊ मनीषिभिः
विदुरेणाथ भीष्मेण दरॊणेन च कृपेण च
MBh 15.5.5
पदे पदे भगवता वयासेन च महात्मना
संजयेनाथ गान्धार्या तद इदं तप्यते ऽदय माम
MBh 15.5.6
यच चाहं पाण्डुपुत्रेण गुणवत्सु महात्मसु
न दत्तवाञ शरियं दीप्तां पितृपैतामहीम इमाम
MBh 15.5.7
विनाशं पश्यमानॊ हि सर्वराज्ञां गदाग्रजः
एतच छरेयः स परमम अमन्यत जनार्दनः
MBh 15.5.8
सॊ ऽहम एतान्य अलीकानि निवृत्तान्य आत्मनः सदा
हृदये शल्य भूतानि धारयामि सहस्रशः
MBh 15.5.9
विशेषतस तु दह्यामि वर्षं पञ्चदशं हि वै
अस्य पापस्य शुद्ध्य अर्थं नियतॊ ऽसमि सुदुर्मतिः
MBh 15.5.10
चतुर्थे नियते काले कदा चिद अपि चाष्टमे
तृष्णा विनयनं भुञ्जे गान्धारी वेद तन मम
MBh 15.5.11
करॊत्य आहारम इति मां सर्वः परिजनः सदा
युधिष्ठिर भयाद वेत्ति भृशं तप्यति पाण्डवः
MBh 15.5.12
भूमौ शये जप्यपरॊ दर्भेष्व अजिन संवृतः
नियमव्यपदेशेन गान्धारी च यशस्विनी
MBh 15.5.13
हतं पुत्रशतं शूरं संग्रामेष्व अपलायिनम
नानुतप्यामि तच चाहं कषत्रधर्मं हि तं विदुः
इत्य उक्त्वा धर्मराजानम अभ्यभाषत कौरवः
MBh 15.5.14
भद्रं ते यादवी मातर वाक्यं चेदं निबॊध मे
सुखम अस्म्य उषितः पुत्र तवया सुपरिपालितः
MBh 15.5.15
महादानानि दत्तानि शराद्धानि च पुनः पुनः
परकृष्टं मे वयः पुत्र पुण्यं चीर्णं यथाबलम
गान्धारी हतपुत्रेयं धैर्येणॊदीक्षते च माम
MBh 15.5.16
दरौपद्या हय अपकर्तारस तव चैश्वर्यहारिणः
समतीता नृशंसास ते धर्मेण निहता युधि
MBh 15.5.17
न तेषु परतिकर्तव्यं पश्यामि कुरुनन्दन
सर्वे शस्त्रजिताँल लॊकान गतास ते ऽभिमुखं हताः
MBh 15.5.18
आत्मनस तु हितं मुख्यं परतिकर्तव्यम अद्य मे
गान्धार्याश चैव राजेन्द्र तदनुज्ञातुम अर्हसि
MBh 15.5.19
तवं हि धर्मभृतां शरेष्ठः सततं धर्मवत्सलः
राजा गुरुः पराणभृतां तस्माद एतद बरवीम्य अहम
MBh 15.5.20
अनुज्ञातस तवया वीर संश्रयेयं वनान्य अहम
चीरवल्कल भृद राजन गान्धार्या सहितॊ ऽनया
तवाशिषः परयुञ्जानॊ भविष्यामि वनेचरः
MBh 15.5.21
उचितं नः कुले तात सर्वेषां भरतर्षभ
पुत्रेष्व ऐश्वर्यम आधाय वयसॊ ऽनते वनं नृप
MBh 15.5.22
तत्राहं वायुभक्षॊ वा निराहारॊ ऽपि वा वसन
पत्न्या सहानया वीर चरिष्यामि तपः परम
MBh 15.5.23
तवं चापि फलभाक तात तपसः पार्थिवॊ हय असि
फलभाजॊ हि राजानः कल्याणस्येतरस्य वा
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Āśramavāsika-Parva chapter-index (47 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Āśramavāsika-Parva Ch 4
- Next chapter · Āśramavāsika-Parva Ch 6 →
🪷 जय व्यास भगवान् 🪷