🪷 Mahābhārata · Āśramavāsika-Parva · Chapter 31

The Book of Hermitage Residence · Parva 15 · 20 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 20 Shlokas

MBh 15.31.1
वैशंपायन उवाच ततस्ते पाण्डवा दूरादवतीर्य पदातयः अभिजग्मुर्नरपतेराश्रमं विनयानताः
MBh 15.31.2
स च पौरजनः सर्वो ये च राष्ट्रनिवासिनः स्त्रियश्च कुरुमुख्यानां पद्भिरेवान्वयुस्तदा
MBh 15.31.3
आश्रमं ते ततो जग्मुर्धृतराष्ट्रस्य पाण्डवाः शून्यं मृगगणाकीर्णं कदलीवनशोभितम्
MBh 15.31.4
ततस्तत्र समाजग्मुस्तापसा विविधव्रताः पाण्डवानागतान्द्रष्टुं कौतूहलसमन्विताः
MBh 15.31.5
तानपृच्छत्ततो राजा क्वासौ कौरववंशभृत् पिता ज्येष्ठो गतोऽस्माकमिति बाष्पपरिप्लुतः
MBh 15.31.6
तमूचुस्ते ततो वाक्यं यमुनामवगाहितुम् पुष्पाणामुदकुम्भस्य चार्थे गत इति प्रभो
MBh 15.31.7
तैराख्यातेन मार्गेण ततस्ते प्रययुस्तदा ददृशुश्चाविदूरे तान्सर्वानथ पदातयः
MBh 15.31.8
ततस्ते सत्वरा जग्मुः पितुर्दर्शनकाङ्क्षिणः सहदेवस्तु वेगेन प्राधावद्येन सा पृथा
MBh 15.31.9
सस्वनं प्ररुदन्धीमान्मातुः पादावुपस्पृशन् सा च बाष्पाविलमुखी प्रददर्श प्रियं सुतम्
MBh 15.31.10
बाहुभ्यां संपरिष्वज्य समुन्नाम्य च पुत्रकम् गान्धार्याः कथयामास सहदेवमुपस्थितम्
MBh 15.31.11
अनन्तरं च राजानं भीमसेनमथार्जुनम् नकुलं च पृथा दृष्ट्वा त्वरमाणोपचक्रमे
MBh 15.31.12
सा ह्यग्रेऽगच्छत तयोर्दंपत्योर्हतपुत्रयोः कर्षन्ती तौ ततस्ते तां दृष्ट्वा संन्यपतन्भुवि
MBh 15.31.13
तान्राजा स्वरयोगेन स्पर्शेन च महामनाः प्रत्यभिज्ञाय मेधावी समाश्वासयत प्रभुः
MBh 15.31.14
ततस्ते बाष्पमुत्सृज्य गान्धारीसहितं नृपम् उपतस्थुर्महात्मानो मातरं च यथाविधि
MBh 15.31.15
सर्वेषां तोयकलशाञ्जगृहुस्ते स्वयं तदा पाण्डवा लब्धसंज्ञास्ते मात्रा चाश्वासिताः पुनः
MBh 15.31.16
ततो नार्यो नृसिंहानां स च योधजनस्तदा पौरजानपदाश्चैव ददृशुस्तं नराधिपम्
MBh 15.31.17
निवेदयामास तदा जनं तं नामगोत्रतः युधिष्ठिरो नरपतिः स चैनान्प्रत्यपूजयत्
MBh 15.31.18
स तैः परिवृतो मेने हर्षबाष्पाविलेक्षणः राजात्मानं गृहगतं पुरेव गजसाह्वये
MBh 15.31.19
अभिवादितो वधूभिश्च कृष्णाद्याभिः स पार्थिवः गान्धार्या सहितो धीमान्कुन्त्या च प्रत्यनन्दत
MBh 15.31.20
ततश्चाश्रममागच्छत्सिद्धचारणसेवितम् दिदृक्षुभिः समाकीर्णं नभस्तारागणैरिव

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 20 source-pinned Devanāgarī addresses to Āśramavāsika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 15.31local chapter route · Āśramavāsika-ParvaĀśramavāsika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷