🪷 Mahābhārata · Āśramavāsika-Parva · Chapter 22

The Book of Hermitage Residence · Parva 15 · 32 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 32 Shlokas

MBh 15.22.1
वैशंपायन उवाच ततः प्रासादहर्म्येषु वसुधायां च पार्थिव स्त्रीणां च पुरुषाणां च सुमहान्निस्वनोऽभवत्
MBh 15.22.2
स राजा राजमार्गेण नृनारीसंकुलेन च कथंचिन्निर्ययौ धीमान्वेपमानः कृताञ्जलिः
MBh 15.22.3
स वर्धमानद्वारेण निर्ययौ गजसाह्वयात् विसर्जयामास च तं जनौघं स मुहुर्मुहुः
MBh 15.22.4
वनं गन्तुं च विदुरो राज्ञा सह कृतक्षणः संजयश्च महामात्रः सूतो गावल्गणिस्तथा
MBh 15.22.5
कृपं निवर्तयामास युयुत्सुं च महारथम् धृतराष्ट्रो महीपालः परिदाय युधिष्ठिरे
MBh 15.22.6
निवृत्ते पौरवर्गे तु राजा सान्तःपुरस्तदा धृतराष्ट्राभ्यनुज्ञातो निवर्तितुमियेष सः
MBh 15.22.7
सोऽब्रवीन्मातरं कुन्तीमुपेत्य भरतर्षभ अहं राजानमन्विष्ये भवती विनिवर्तताम्
MBh 15.22.8
वधूपरिवृता राज्ञि नगरं गन्तुमर्हसि राजा यात्वेष धर्मात्मा तपसे धृतनिश्चयः
MBh 15.22.9
इत्युक्ता धर्मराजेन बाष्पव्याकुललोचना जगादैवं तदा कुन्ती गान्धारीं परिगृह्य ह
MBh 15.22.10
सहदेवे महाराज मा प्रमादं कृथाः क्वचित् एष मामनुरक्तो हि राजंस्त्वां चैव नित्यदा
MBh 15.22.11
कर्णं स्मरेथाः सततं संग्रामेष्वपलायिनम् अवकीर्णो हि स मया वीरो दुष्प्रज्ञया तदा
MBh 15.22.12
आयसं हृदयं नूनं मन्दाया मम पुत्रक यत्सूर्यजमपश्यन्त्याः शतधा न विदीर्यते
MBh 15.22.13
एवंगते तु किं शक्यं मया कर्तुमरिंदम मम दोषोऽयमत्यर्थं ख्यापितो यन्न सूर्यजः तन्निमित्तं महाबाहो दानं दद्यास्त्वमुत्तमम्
MBh 15.22.14
सदैव भ्रातृभिः सार्धमग्रजस्यारिमर्दन द्रौपद्याश्च प्रिये नित्यं स्थातव्यमरिकर्शन
MBh 15.22.15
भीमसेनार्जुनौ चैव नकुलश्च कुरूद्वह समाधेयास्त्वया वीर त्वय्यद्य कुलधूर्गता
MBh 15.22.16
श्वश्रूश्वशुरयोः पादाञ्शुश्रूषन्ती वने त्वहम् गान्धारीसहिता वत्स्ये तापसी मलपङ्किनी
MBh 15.22.17
एवमुक्तः स धर्मात्मा भ्रातृभिः सहितो वशी विषादमगमत्तीव्रं न च किंचिदुवाच ह
MBh 15.22.18
स मुहूर्तमिव ध्यात्वा धर्मपुत्रो युधिष्ठिरः उवाच मातरं दीनश्चिन्ताशोकपरायणः
MBh 15.22.19
किमिदं ते व्यवसितं नैवं त्वं वक्तुमर्हसि न त्वामभ्यनुजानामि प्रसादं कर्तुमर्हसि
MBh 15.22.20
व्यरोचयः पुरा ह्यस्मानुत्साह्य प्रियदर्शने विदुराया वचोभिस्त्वमस्मान्न त्यक्तुमर्हसि
MBh 15.22.21
निहत्य पृथिवीपालान्राज्यं प्राप्तमिदं मया तव प्रज्ञामुपश्रुत्य वासुदेवान्नरर्षभात्
MBh 15.22.22
क्व सा बुद्धिरियं चाद्य भवत्या या श्रुता मया क्षत्रधर्मे स्थितिं ह्युक्त्वा तस्याश्चलितुमिच्छसि
MBh 15.22.23
अस्मानुत्सृज्य राज्यं च स्नुषां चेमां यशस्विनीम् कथं वत्स्यसि शून्येषु वनेष्वम्ब प्रसीद मे
MBh 15.22.24
इति बाष्पकलां वाचं कुन्ती पुत्रस्य शृण्वती जगामैवाश्रुपूर्णाक्षी भीमस्तामिदमब्रवीत्
MBh 15.22.25
यदा राज्यमिदं कुन्ति भोक्तव्यं पुत्रनिर्जितम् प्राप्तव्या राजधर्माश्च तदेयं ते कुतो मतिः
MBh 15.22.26
किं वयं कारिताः पूर्वं भवत्या पृथिवीक्षयम् कस्य हेतोः परित्यज्य वनं गन्तुमभीप्ससि
MBh 15.22.27
वनाच्चापि किमानीता भवत्या बालका वयम् दुःखशोकसमाविष्टौ माद्रीपुत्राविमौ तथा
MBh 15.22.28
प्रसीद मातर्मा गास्त्वं वनमद्य यशस्विनि श्रियं यौधिष्ठिरीं तावद्भुङ्क्ष्व पार्थबलार्जिताम्
MBh 15.22.29
इति सा निश्चितैवाथ वनवासकृतक्षणा लालप्यतां बहुविधं पुत्राणां नाकरोद्वचः
MBh 15.22.30
द्रौपदी चान्वयाच्छ्वश्रूं विषण्णवदना तदा वनवासाय गच्छन्तीं रुदती भद्रया सह
MBh 15.22.31
सा पुत्रान्रुदतः सर्वान्मुहुर्मुहुरवेक्षती जगामैव महाप्राज्ञा वनाय कृतनिश्चया
MBh 15.22.32
अन्वयुः पाण्डवास्तां तु सभृत्यान्तःपुरास्तदा ततः प्रमृज्य साश्रूणि पुत्रान्वचनमब्रवीत्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 32 source-pinned Devanāgarī addresses to Āśramavāsika-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 15.22local chapter route · Āśramavāsika-ParvaĀśramavāsika-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷