🪷 Mahābhārata · Anuśāsana-Parva · Chapter 6

The Book of the Final Teaching · Parva 13 · 49 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 49 Shlokas

MBh 13.6.1
युधिष्ठिर उवाच पितामह महाप्राज्ञ सर्वशास्त्रविशारद दैवे पुरुषकारे च किं स्विच्छ्रेष्ठतरं भवेत्
MBh 13.6.2
भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् वसिष्ठस्य च संवादं ब्रह्मणश्च युधिष्ठिर
MBh 13.6.3
दैवमानुषयोः किं स्वित्कर्मणोः श्रेष्ठमित्युत पुरा वसिष्ठो भगवान्पितामहमपृच्छत
MBh 13.6.4
ततः पद्मोद्भवो राजन्देवदेवः पितामहः उवाच मधुरं वाक्यमर्थवद्धेतुभूषितम्
MBh 13.6.5
नाबीजं जायते किंचिन्न बीजेन विना फलम् बीजाद्बीजं प्रभवति बीजादेव फलं स्मृतम्
MBh 13.6.6
यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः सुकृते दुष्कृते वापि तादृशं लभते फलम्
MBh 13.6.7
यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम् तथा पुरुषकारेण विना दैवं न सिध्यति
MBh 13.6.8
क्षेत्रं पुरुषकारस्तु दैवं बीजमुदाहृतम् क्षेत्रबीजसमायोगात्ततः सस्यं समृध्यते
MBh 13.6.9
कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः प्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य च
MBh 13.6.10
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा कृतं सर्वत्र लभते नाकृतं भुज्यते क्वचित्
MBh 13.6.11
कृती सर्वत्र लभते प्रतिष्ठां भाग्यविक्षतः अकृती लभते भ्रष्टः क्षते क्षारावसेचनम्
MBh 13.6.12
तपसा रूपसौभाग्यं रत्नानि विविधानि च प्राप्यते कर्मणा सर्वं न दैवादकृतात्मना
MBh 13.6.13
तथा स्वर्गश्च भोगश्च निष्ठा या च मनीषिता सर्वं पुरुषकारेण कृतेनेहोपपद्यते
MBh 13.6.14
ज्योतींषि त्रिदशा नागा यक्षाश्चन्द्रार्कमारुताः सर्वे पुरुषकारेण मानुष्याद्देवतां गताः
MBh 13.6.15
अर्थो वा मित्रवर्गो वा ऐश्वर्यं वा कुलान्वितम् श्रीश्चापि दुर्लभा भोक्तुं तथैवाकृतकर्मभिः
MBh 13.6.16
शौचेन लभते विप्रः क्षत्रियो विक्रमेण च वैश्यः पुरुषकारेण शूद्रः शुश्रूषया श्रियम्
MBh 13.6.17
नादातारं भजन्त्यर्था न क्लीबं नापि निष्क्रियम् नाकर्मशीलं नाशूरं तथा नैवातपस्विनम्
MBh 13.6.18
येन लोकास्त्रयः सृष्टा दैत्याः सर्वाश्च देवताः स एष भगवान्विष्णुः समुद्रे तप्यते तपः
MBh 13.6.19
स्वं चेत्कर्मफलं न स्यात्सर्वमेवाफलं भवेत् लोको दैवं समालम्ब्य उदासीनो भवेन्न तु
MBh 13.6.20
अकृत्वा मानुषं कर्म यो दैवमनुवर्तते वृथा श्राम्यति संप्राप्य पतिं क्लीबमिवाङ्गना
MBh 13.6.21
न तथा मानुषे लोके भयमस्ति शुभाशुभे यथा त्रिदशलोके हि भयमल्पेन जायते
MBh 13.6.22
कृतः पुरुषकारस्तु दैवमेवानुवर्तते न दैवमकृते किंचित्कस्यचिद्दातुमर्हति
MBh 13.6.23
यदा स्थानान्यनित्यानि दृश्यन्ते दैवतेष्वपि कथं कर्म विना दैवं स्थास्यते स्थापयिष्यति
MBh 13.6.24
न दैवतानि लोकेऽस्मिन्व्यापारं यान्ति कस्यचित् व्यासङ्गं जनयन्त्युग्रमात्माभिभवशङ्कया
MBh 13.6.25
ऋषीणां देवतानां च सदा भवति विग्रहः कस्य वाचा ह्यदैवं स्याद्यतो दैवं प्रवर्तते
MBh 13.6.26
कथं चास्य समुत्पत्तिर्यथा दैवं प्रवर्तते एवं त्रिदशलोकेऽपि प्राप्यन्ते बहवश्छलाः
MBh 13.6.27
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः आत्मैव चात्मनः साक्षी कृतस्याप्यकृतस्य च
MBh 13.6.28
कृतं च विकृतं किंचित्कृते कर्मणि सिध्यति सुकृते दुष्कृतं कर्म न यथार्थं प्रपद्यते
MBh 13.6.29
देवानां शरणं पुण्यं सर्वं पुण्यैरवाप्यते पुण्यशीलं नरं प्राप्य किं दैवं प्रकरिष्यति
MBh 13.6.30
पुरा ययातिर्विभ्रष्टश्च्यावितः पतितः क्षितौ पुनरारोपितः स्वर्गं दौहित्रैः पुण्यकर्मभिः
MBh 13.6.31
पुरूरवाश्च राजर्षिर्द्विजैरभिहितः पुरा ऐल इत्यभिविख्यातः स्वर्गं प्राप्तो महीपतिः
MBh 13.6.32
अश्वमेधादिभिर्यज्ञैः सत्कृतः कोसलाधिपः महर्षिशापात्सौदासः पुरुषादत्वमागतः
MBh 13.6.33
अश्वत्थामा च रामश्च मुनिपुत्रौ धनुर्धरौ न गच्छतः स्वर्गलोकं सुकृतेनेह कर्मणा
MBh 13.6.34
वसुर्यज्ञशतैरिष्ट्वा द्वितीय इव वासवः मिथ्याभिधानेनैकेन रसातलतलं गतः
MBh 13.6.35
बलिर्वैरोचनिर्बद्धो धर्मपाशेन दैवतैः विष्णोः पुरुषकारेण पातालशयनः कृतः
MBh 13.6.36
शक्रस्योदस्य चरणं प्रस्थितो जनमेजयः द्विजस्त्रीणां वधं कृत्वा किं दैवेन न वारितः
MBh 13.6.37
अज्ञानाद्ब्राह्मणं हत्वा स्पृष्टो बालवधेन च वैशंपायनविप्रर्षिः किं दैवेन निवारितः
MBh 13.6.38
गोप्रदानेन मिथ्या च ब्राह्मणेभ्यो महामखे पुरा नृगश्च राजर्षिः कृकलासत्वमागतः
MBh 13.6.39
धुन्धुमारश्च राजर्षिः सत्रेष्वेव जरां गतः प्रीतिदायं परित्यज्य सुष्वाप स गिरिव्रजे
MBh 13.6.40
पाण्डवानां हृतं राज्यं धार्तराष्ट्रैर्महाबलैः पुनः प्रत्याहृतं चैव न दैवाद्भुजसंश्रयात्
MBh 13.6.41
तपोनियमसंयुक्ता मुनयः संशितव्रताः किं ते दैवबलाच्छापमुत्सृजन्ते न कर्मणा
MBh 13.6.42
पापमुत्सृजते लोके सर्वं प्राप्य सुदुर्लभम् लोभमोहसमापन्नं न दैवं त्रायते नरम्
MBh 13.6.43
यथाग्निः पवनोद्धूतः सूक्ष्मोऽपि भवते महान् तथा कर्मसमायुक्तं दैवं साधु विवर्धते
MBh 13.6.44
यथा तैलक्षयाद्दीपः प्रम्लानिमुपगच्छति तथा कर्मक्षयाद्दैवं प्रम्लानिमुपगच्छति
MBh 13.6.45
विपुलमपि धनौघं प्राप्य भोगान्स्त्रियो वा; पुरुष इह न शक्तः कर्महीनोऽपि भोक्तुम् सुनिहितमपि चार्थं दैवतै रक्ष्यमाणं; व्ययगुणमपि साधुं कर्मणा संश्रयन्ते
MBh 13.6.46
भवति मनुजलोकाद्देवलोको विशिष्टो; बहुतरसुसमृद्ध्या मानुषाणां गृहाणि पितृवनभवनाभं दृश्यते चामराणां; न च फलति विकर्मा जीवलोकेन दैवम्
MBh 13.6.47
व्यपनयति विमार्गं नास्ति दैवे प्रभुत्वं; गुरुमिव कृतमग्र्यं कर्म संयाति दैवम् अनुपहतमदीनं कामकारेण दैवं; नयति पुरुषकारः संचितस्तत्र तत्र
MBh 13.6.48
एतत्ते सर्वमाख्यातं मया वै मुनिसत्तम फलं पुरुषकारस्य सदा संदृश्य तत्त्वतः
MBh 13.6.49
अभ्युत्थानेन दैवस्य समारब्धेन कर्मणा विधिना कर्मणा चैव स्वर्गमार्गमवाप्नुयात्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 49 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.6local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷