🪷 Mahābhārata · Anuśāsana-Parva · Chapter 48

The Book of the Final Teaching · Parva 13 · 49 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 49 Shlokas

MBh 13.48.1
युधिष्ठिर उवाच अर्थाश्रयाद्वा कामाद्वा वर्णानां वाप्यनिश्चयात् अज्ञानाद्वापि वर्णानां जायते वर्णसंकरः
MBh 13.48.2
तेषामेतेन विधिना जातानां वर्णसंकरे को धर्मः कानि कर्माणि तन्मे ब्रूहि पितामह
MBh 13.48.3
भीष्म उवाच चातुर्वर्ण्यस्य कर्माणि चातुर्वर्ण्यं च केवलम् असृजत्स ह यज्ञार्थे पूर्वमेव प्रजापतिः
MBh 13.48.4
भार्याश्चतस्रो विप्रस्य द्वयोरात्मास्य जायते आनुपूर्व्याद्द्वयोर्हीनौ मातृजात्यौ प्रसूयतः
MBh 13.48.5
परं शवाद्ब्राह्मणस्यैष पुत्रः; शूद्रापुत्रं पारशवं तमाहुः शुश्रूषकः स्वस्य कुलस्य स स्या;त्स्वं चारित्रं नित्यमथो न जह्यात्
MBh 13.48.6
सर्वानुपायानपि संप्रधार्य; समुद्धरेत्स्वस्य कुलस्य तन्तुम् ज्येष्ठो यवीयानपि यो द्विजस्य; शुश्रूषवान्दानपरायणः स्यात्
MBh 13.48.7
तिस्रः क्षत्रियसंबन्धाद्द्वयोरात्मास्य जायते हीनवर्णस्तृतीयायां शूद्र उग्र इति स्मृतः
MBh 13.48.8
द्वे चापि भार्ये वैश्यस्य द्वयोरात्मास्य जायते शूद्रा शूद्रस्य चाप्येका शूद्रमेव प्रजायते
MBh 13.48.9
अतो विशिष्टस्त्वधमो गुरुदारप्रधर्षकः बाह्यं वर्णं जनयति चातुर्वर्ण्यविगर्हितम्
MBh 13.48.10
अयाज्यं क्षत्रियो व्रात्यं सूतं स्तोमक्रियापरम् वैश्यो वैदेहकं चापि मौद्गल्यमपवर्जितम्
MBh 13.48.11
शूद्रश्चण्डालमत्युग्रं वध्यघ्नं बाह्यवासिनम् ब्राह्मण्यां संप्रजायन्त इत्येते कुलपांसनाः एते मतिमतां श्रेष्ठ वर्णसंकरजाः प्रभो
MBh 13.48.12
बन्दी तु जायते वैश्यान्मागधो वाक्यजीवनः शूद्रान्निषादो मत्स्यघ्नः क्षत्रियायां व्यतिक्रमात्
MBh 13.48.13
शूद्रादायोगवश्चापि वैश्यायां ग्रामधर्मिणः ब्राह्मणैरप्रतिग्राह्यस्तक्षा स वनजीवनः
MBh 13.48.14
एतेऽपि सदृशं वर्णं जनयन्ति स्वयोनिषु मातृजात्यां प्रसूयन्ते प्रवरा हीनयोनिषु
MBh 13.48.15
यथा चतुर्षु वर्णेषु द्वयोरात्मास्य जायते आनन्तर्यात्तु जायन्ते तथा बाह्याः प्रधानतः
MBh 13.48.16
ते चापि सदृशं वर्णं जनयन्ति स्वयोनिषु परस्परस्य वर्तन्तो जनयन्ति विगर्हितान्
MBh 13.48.17
यथा च शूद्रो ब्राह्मण्यां जन्तुं बाह्यं प्रसूयते एवं बाह्यतराद्बाह्यश्चातुर्वर्ण्यात्प्रसूयते
MBh 13.48.18
प्रतिलोमं तु वर्तन्तो बाह्याद्बाह्यतरं पुनः हीना हीनात्प्रसूयन्ते वर्णाः पञ्चदशैव ते
MBh 13.48.19
अगम्यागमनाच्चैव वर्तते वर्णसंकरः व्रात्यानामत्र जायन्ते सैरन्ध्रा मागधेषु च प्रसाधनोपचारज्ञमदासं दासजीवनम्
MBh 13.48.20
अतश्चायोगवं सूते वागुरावनजीवनम् मैरेयकं च वैदेहः संप्रसूतेऽथ माधुकम्
MBh 13.48.21
निषादो मुद्गरं सूते दाशं नावोपजीविनम् मृतपं चापि चण्डालः श्वपाकमतिकुत्सितम्
MBh 13.48.22
चतुरो मागधी सूते क्रूरान्मायोपजीविनः मांसस्वादुकरं सूदं सौगन्धमिति संज्ञितम्
MBh 13.48.23
वैदेहकाच्च पापिष्ठं क्रूरं भार्योपजीविनम् निषादान्मद्रनाभं च खरयानप्रयायिनम्
MBh 13.48.24
चण्डालात्पुल्कसं चापि खराश्वगजभोजिनम् मृतचेलप्रतिच्छन्नं भिन्नभाजनभोजिनम्
MBh 13.48.25
आयोगवीषु जायन्ते हीनवर्णासु ते त्रयः क्षुद्रो वैदेहकादन्ध्रो बहिर्ग्रामप्रतिश्रयः
MBh 13.48.26
कारावरो निषाद्यां तु चर्मकारात्प्रजायते चण्डालात्पाण्डुसौपाकस्त्वक्सारव्यवहारवान्
MBh 13.48.27
आहिण्डिको निषादेन वैदेह्यां संप्रजायते चण्डालेन तु सौपाको मौद्गल्यसमवृत्तिमान्
MBh 13.48.28
निषादी चापि चण्डालात्पुत्रमन्तावसायिनम् श्मशानगोचरं सूते बाह्यैरपि बहिष्कृतम्
MBh 13.48.29
इत्येताः संकरे जात्यः पितृमातृव्यतिक्रमात् प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः
MBh 13.48.30
चतुर्णामेव वर्णानां धर्मो नान्यस्य विद्यते वर्णानां धर्महीनेषु संज्ञा नास्तीह कस्यचित्
MBh 13.48.31
यदृच्छयोपसंपन्नैर्यज्ञसाधुबहिष्कृतैः बाह्या बाह्यैस्तु जायन्ते यथावृत्ति यथाश्रयम्
MBh 13.48.32
चतुष्पथश्मशानानि शैलांश्चान्यान्वनस्पतीन् युञ्जन्ते चाप्यलंकारांस्तथोपकरणानि च
MBh 13.48.33
गोब्राह्मणार्थे साहाय्यं कुर्वाणा वै न संशयः आनृशंस्यमनुक्रोशः सत्यवाक्यमथ क्षमा
MBh 13.48.34
स्वशरीरैः परित्राणं बाह्यानां सिद्धिकारकम् मनुजव्याघ्र भवति तत्र मे नास्ति संशयः
MBh 13.48.35
यथोपदेशं परिकीर्तितासु; नरः प्रजायेत विचार्य बुद्धिमान् विहीनयोनिर्हि सुतोऽवसादये;त्तितीर्षमाणं सलिले यथोपलम्
MBh 13.48.36
अविद्वांसमलं लोके विद्वांसमपि वा पुनः नयन्ते ह्युत्पथं नार्यः कामक्रोधवशानुगम्
MBh 13.48.37
स्वभावश्चैव नारीणां नराणामिह दूषणम् इत्यर्थं न प्रसज्जन्ते प्रमदासु विपश्चितः
MBh 13.48.38
युधिष्ठिर उवाच वर्णापेतमविज्ञातं नरं कलुषयोनिजम् आर्यरूपमिवानार्यं कथं विद्यामहे नृप
MBh 13.48.39
भीष्म उवाच योनिसंकलुषे जातं नानाचारसमाहितम् कर्मभिः सज्जनाचीर्णैर्विज्ञेया योनिशुद्धता
MBh 13.48.40
अनार्यत्वमनाचारः क्रूरत्वं निष्क्रियात्मता पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम्
MBh 13.48.41
पित्र्यं वा भजते शीलं मातृजं वा तथोभयम् न कथंचन संकीर्णः प्रकृतिं स्वां नियच्छति
MBh 13.48.42
यथैव सदृशो रूपे मातापित्रोर्हि जायते व्याघ्रश्चित्रैस्तथा योनिं पुरुषः स्वां नियच्छति
MBh 13.48.43
कुलस्रोतसि संछन्ने यस्य स्याद्योनिसंकरः संश्रयत्येव तच्छीलं नरोऽल्पमपि वा बहु
MBh 13.48.44
आर्यरूपसमाचारं चरन्तं कृतके पथि स्ववर्णमन्यवर्णं वा स्वशीलं शास्ति निश्चये
MBh 13.48.45
नानावृत्तेषु भूतेषु नानाकर्मरतेषु च जन्मवृत्तसमं लोके सुश्लिष्टं न विरज्यते
MBh 13.48.46
शरीरमिह सत्त्वेन नरस्य परिकृष्यते ज्येष्ठमध्यावरं सत्त्वं तुल्यसत्त्वं प्रमोदते
MBh 13.48.47
ज्यायांसमपि शीलेन विहीनं नैव पूजयेत् अपि शूद्रं तु सद्वृत्तं धर्मज्ञमभिपूजयेत्
MBh 13.48.48
आत्मानमाख्याति हि कर्मभिर्नरः; स्वशीलचारित्रकृतैः शुभाशुभैः प्रनष्टमप्यात्मकुलं तथा नरः; पुनः प्रकाशं कुरुते स्वकर्मभिः
MBh 13.48.49
योनिष्वेतासु सर्वासु संकीर्णास्वितरासु च यत्रात्मानं न जनयेद्बुधस्ताः परिवर्जयेत्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 49 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.48local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷