🪷 Mahābhārata · Anuśāsana-Parva · Chapter 4

The Book of the Final Teaching · Parva 13 · 61 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 61 Shlokas

MBh 13.4.1
भीष्म उवाच श्रूयतां पार्थ तत्त्वेन विश्वामित्रो यथा पुरा ब्राह्मणत्वं गतस्तात ब्रह्मर्षित्वं तथैव च
MBh 13.4.2
भरतस्यान्वये चैवाजमीढो नाम पार्थिवः बभूव भरतश्रेष्ठ यज्वा धर्मभृतां वरः
MBh 13.4.3
तस्य पुत्रो महानासीज्जह्नुर्नाम नरेश्वरः दुहितृत्वमनुप्राप्ता गङ्गा यस्य महात्मनः
MBh 13.4.4
तस्यात्मजस्तुल्यगुणः सिन्धुद्वीपो महायशाः सिन्धुद्वीपाच्च राजर्षिर्बलाकाश्वो महाबलः
MBh 13.4.5
वल्लभस्तस्य तनयः साक्षाद्धर्म इवापरः कुशिकस्तस्य तनयः सहस्राक्षसमद्युतिः
MBh 13.4.6
कुशिकस्यात्मजः श्रीमान्गाधिर्नाम जनेश्वरः अपुत्रः स महाबाहुर्वनवासमुदावसत्
MBh 13.4.7
कन्या जज्ञे सुता तस्य वने निवसतः सतः नाम्ना सत्यवती नाम रूपेणाप्रतिमा भुवि
MBh 13.4.8
तां वव्रे भार्गवः श्रीमांश्च्यवनस्यात्मजः प्रभुः ऋचीक इति विख्यातो विपुले तपसि स्थितः
MBh 13.4.9
स तां न प्रददौ तस्मै ऋचीकाय महात्मने दरिद्र इति मत्वा वै गाधिः शत्रुनिबर्हणः
MBh 13.4.10
प्रत्याख्याय पुनर्यान्तमब्रवीद्राजसत्तमः शुल्कं प्रदीयतां मह्यं ततो वेत्स्यसि मे सुताम्
MBh 13.4.11
ऋचीक उवाच किं प्रयच्छामि राजेन्द्र तुभ्यं शुल्कमहं नृप दुहितुर्ब्रूह्यसंसक्तो मात्राभूत्ते विचारणा
MBh 13.4.12
गाधिरुवाच चन्द्ररश्मिप्रकाशानां हयानां वातरंहसाम् एकतः श्यामकर्णानां सहस्रं देहि भार्गव
MBh 13.4.13
भीष्म उवाच ततः स भृगुशार्दूलश्च्यवनस्यात्मजः प्रभुः अब्रवीद्वरुणं देवमादित्यं पतिमम्भसाम्
MBh 13.4.14
एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम् सहस्रं वातवेगानां भिक्षे त्वां देवसत्तम
MBh 13.4.15
तथेति वरुणो देव आदित्यो भृगुसत्तमम् उवाच यत्र ते छन्दस्तत्रोत्थास्यन्ति वाजिनः
MBh 13.4.16
ध्यातमात्रे ऋचीकेन हयानां चन्द्रवर्चसाम् गङ्गाजलात्समुत्तस्थौ सहस्रं विपुलौजसाम्
MBh 13.4.17
अदूरे कन्यकुब्जस्य गङ्गायास्तीरमुत्तमम् अश्वतीर्थं तदद्यापि मानवाः परिचक्षते
MBh 13.4.18
तत्तदा गाधये तात सहस्रं वाजिनां शुभम् ऋचीकः प्रददौ प्रीतः शुल्कार्थं जपतां वरः
MBh 13.4.19
ततः स विस्मितो राजा गाधिः शापभयेन च ददौ तां समलंकृत्य कन्यां भृगुसुताय वै
MBh 13.4.20
जग्राह पाणिं विधिना तस्य ब्रह्मर्षिसत्तमः सा च तं पतिमासाद्य परं हर्षमवाप ह
MBh 13.4.21
स तुतोष च विप्रर्षिस्तस्या वृत्तेन भारत छन्दयामास चैवैनां वरेण वरवर्णिनीम्
MBh 13.4.22
मात्रे तत्सर्वमाचख्यौ सा कन्या राजसत्तमम् अथ तामब्रवीन्माता सुतां किंचिदवाङ्मुखीम्
MBh 13.4.23
ममापि पुत्रि भर्ता ते प्रसादं कर्तुमर्हति अपत्यस्य प्रदानेन समर्थः स महातपाः
MBh 13.4.24
ततः सा त्वरितं गत्वा तत्सर्वं प्रत्यवेदयत् मातुश्चिकीर्षितं राजन्नृचीकस्तामथाब्रवीत्
MBh 13.4.25
गुणवन्तमपत्यं वै त्वं च सा जनयिष्यथः जनन्यास्तव कल्याणि मा भूद्वै प्रणयोऽन्यथा
MBh 13.4.26
तव चैव गुणश्लाघी पुत्र उत्पत्स्यते शुभे अस्मद्वंशकरः श्रीमांस्तव भ्राता च वंशकृत्
MBh 13.4.27
ऋतुस्नाता च साश्वत्थं त्वं च वृक्षमुदुम्बरम् परिष्वजेथाः कल्याणि तत इष्टमवाप्स्यथः
MBh 13.4.28
चरुद्वयमिदं चैव मन्त्रपूतं शुचिस्मिते त्वं च सा चोपयुञ्जीथां ततः पुत्राववाप्स्यथः
MBh 13.4.29
ततः सत्यवती हृष्टा मातरं प्रत्यभाषत यदृचीकेन कथितं तच्चाचख्यौ चरुद्वयम्
MBh 13.4.30
तामुवाच ततो माता सुतां सत्यवतीं तदा पुत्रि मूर्ध्ना प्रपन्नायाः कुरुष्व वचनं मम
MBh 13.4.31
भर्त्रा य एष दत्तस्ते चरुर्मन्त्रपुरस्कृतः एतं प्रयच्छ मह्यं त्वं मदीयं त्वं गृहाण च
MBh 13.4.32
व्यत्यासं वृक्षयोश्चापि करवाव शुचिस्मिते यदि प्रमाणं वचनं मम मातुरनिन्दिते
MBh 13.4.33
व्यक्तं भगवता चात्र कृतमेवं भविष्यति ततो मे त्वच्चरौ भावः पादपे च सुमध्यमे कथं विशिष्टो भ्राता ते भवेदित्येव चिन्तय
MBh 13.4.34
तथा च कृतवत्यौ ते माता सत्यवती च सा अथ गर्भावनुप्राप्ते उभे ते वै युधिष्ठिर
MBh 13.4.35
दृष्ट्वा गर्भमनुप्राप्तां भार्यां स च महानृषिः उवाच तां सत्यवतीं दुर्मना भृगुसत्तमः
MBh 13.4.36
व्यत्यासेनोपयुक्तस्ते चरुर्व्यक्तं भविष्यति व्यत्यासः पादपे चापि सुव्यक्तं ते कृतः शुभे
MBh 13.4.37
मया हि विश्वं यद्ब्रह्म त्वच्चरौ संनिवेशितम् क्षत्रवीर्यं च सकलं चरौ तस्या निवेशितम्
MBh 13.4.38
त्रिलोकविख्यातगुणं त्वं विप्रं जनयिष्यसि सा च क्षत्रं विशिष्टं वै तत एतत्कृतं मया
MBh 13.4.39
व्यत्यासस्तु कृतो यस्मात्त्वया मात्रा तथैव च तस्मात्सा ब्राह्मणश्रेष्ठं माता ते जनयिष्यति
MBh 13.4.40
क्षत्रियं तूग्रकर्माणं त्वं भद्रे जनयिष्यसि न हि ते तत्कृतं साधु मातृस्नेहेन भामिनि
MBh 13.4.41
सा श्रुत्वा शोकसंतप्ता पपात वरवर्णिनी भूमौ सत्यवती राजंश्छिन्नेव रुचिरा लता
MBh 13.4.42
प्रतिलभ्य च सा संज्ञां शिरसा प्रणिपत्य च उवाच भार्या भर्तारं गाधेयी ब्राह्मणर्षभम्
MBh 13.4.43
प्रसादयन्त्यां भार्यायां मयि ब्रह्मविदां वर प्रसादं कुरु विप्रर्षे न मे स्यात्क्षत्रियः सुतः
MBh 13.4.44
कामं ममोग्रकर्मा वै पौत्रो भवितुमर्हति न तु मे स्यात्सुतो ब्रह्मन्नेष मे दीयतां वरः
MBh 13.4.45
एवमस्त्विति होवाच स्वां भार्यां सुमहातपाः ततः सा जनयामास जमदग्निं सुतं शुभम्
MBh 13.4.46
विश्वामित्रं चाजनयद्गाधेर्भार्या यशस्विनी ऋषेः प्रभावाद्राजेन्द्र ब्रह्मर्षिं ब्रह्मवादिनम्
MBh 13.4.47
ततो ब्राह्मणतां यातो विश्वामित्रो महातपाः क्षत्रियः सोऽप्यथ तथा ब्रह्मवंशस्य कारकः
MBh 13.4.48
तस्य पुत्रा महात्मानो ब्रह्मवंशविवर्धनाः तपस्विनो ब्रह्मविदो गोत्रकर्तार एव च
MBh 13.4.49
मधुच्छन्दश्च भगवान्देवरातश्च वीर्यवान् अक्षीणश्च शकुन्तश्च बभ्रुः कालपथस्तथा
MBh 13.4.50
याज्ञवल्क्यश्च विख्यातस्तथा स्थूणो महाव्रतः उलूको यमदूतश्च तथर्षिः सैन्धवायनः
MBh 13.4.51
कर्णजङ्घश्च भगवान्गालवश्च महानृषिः ऋषिर्वज्रस्तथाख्यातः शालङ्कायन एव च
MBh 13.4.52
लालाट्यो नारदश्चैव तथा कूर्चमुखः स्मृतः वादुलिर्मुसलश्चैव रक्षोग्रीवस्तथैव च
MBh 13.4.53
अङ्घ्रिको नैकभृच्चैव शिलायूपः सितः शुचिः चक्रको मारुतन्तव्यो वातघ्नोऽथाश्वलायनः
MBh 13.4.54
श्यामायनोऽथ गार्ग्यश्च जाबालिः सुश्रुतस्तथा कारीषिरथ संश्रुत्यः परपौरवतन्तवः
MBh 13.4.55
महानृषिश्च कपिलस्तथर्षिस्तारकायनः तथैव चोपगहनस्तथर्षिश्चार्जुनायनः
MBh 13.4.56
मार्गमित्रिर्हिरण्याक्षो जङ्घारिर्बभ्रुवाहनः सूतिर्विभूतिः सूतश्च सुरङ्गश्च तथैव हि
MBh 13.4.57
आराद्धिर्नामयश्चैव चाम्पेयोज्जयनौ तथा नवतन्तुर्बकनखः शयोनरतिरेव च
MBh 13.4.58
शयोरुहश्चारुमत्स्यः शिरीषी चाथ गार्दभिः उज्जयोनिरदापेक्षी नारदी च महानृषिः विश्वामित्रात्मजाः सर्वे मुनयो ब्रह्मवादिनः
MBh 13.4.59
तन्नैष क्षत्रियो राजन्विश्वामित्रो महातपाः ऋचीकेनाहितं ब्रह्म परमेतद्युधिष्ठिर
MBh 13.4.60
एतत्ते सर्वमाख्यातं तत्त्वेन भरतर्षभ विश्वामित्रस्य वै जन्म सोमसूर्याग्नितेजसः
MBh 13.4.61
यत्र यत्र च संदेहो भूयस्ते राजसत्तम तत्र तत्र च मां ब्रूहि च्छेत्तास्मि तव संशयान्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 61 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.4local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷