🪷 Mahābhārata · Anuśāsana-Parva · Chapter 38
The Book of the Final Teaching · Parva 13 · 30 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 30 Shlokas
MBh 13.38.1
युधिष्ठिर उवाच
स्त्रीणां स्वभावमिच्छामि श्रोतुं भरतसत्तम
स्त्रियो हि मूलं दोषाणां लघुचित्ताः पितामह
MBh 13.38.2
भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
नारदस्य च संवादं पुंश्चल्या पञ्चचूडया
MBh 13.38.3
लोकाननुचरन्धीमान्देवर्षिर्नारदः पुरा
ददर्शाप्सरसं ब्राह्मीं पञ्चचूडामनिन्दिताम्
MBh 13.38.4
तां दृष्ट्वा चारुसर्वाङ्गीं पप्रच्छाप्सरसं मुनिः
संशयो हृदि मे कश्चित्तन्मे ब्रूहि सुमध्यमे
MBh 13.38.5
एवमुक्ता तु सा विप्रं प्रत्युवाचाथ नारदम्
विषये सति वक्ष्यामि समर्थां मन्यसे च माम्
MBh 13.38.6
नारद उवाच
न त्वामविषये भद्रे नियोक्ष्यामि कथंचन
स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं वरानने
MBh 13.38.7
भीष्म उवाच
एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा
प्रत्युवाच न शक्ष्यामि स्त्री सती निन्दितुं स्त्रियः
MBh 13.38.8
विदितास्ते स्त्रियो याश्च यादृशाश्च स्वभावतः
न मामर्हसि देवर्षे नियोक्तुं प्रश्न ईदृशे
MBh 13.38.9
तामुवाच स देवर्षिः सत्यं वद सुमध्यमे
मृषावादे भवेद्दोषः सत्ये दोषो न विद्यते
MBh 13.38.10
इत्युक्ता सा कृतमतिरभवच्चारुहासिनी
स्त्रीदोषाञ्शाश्वतान्सत्यान्भाषितुं संप्रचक्रमे
MBh 13.38.11
पञ्चचूडोवाच
कुलीना रूपवत्यश्च नाथवत्यश्च योषितः
मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद
MBh 13.38.12
न स्त्रीभ्यः किंचिदन्यद्वै पापीयस्तरमस्ति वै
स्त्रियो हि मूलं दोषाणां तथा त्वमपि वेत्थ ह
MBh 13.38.13
समाज्ञातानृद्धिमतः प्रतिरूपान्वशे स्थितान्
पतीनन्तरमासाद्य नालं नार्यः प्रतीक्षितुम्
MBh 13.38.14
असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो
पापीयसो नरान्यद्वै लज्जां त्यक्त्वा भजामहे
MBh 13.38.15
स्त्रियं हि यः प्रार्थयते संनिकर्षं च गच्छति
ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः
MBh 13.38.16
अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च
मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु
MBh 13.38.17
नासां कश्चिदगम्योऽस्ति नासां वयसि संस्थितिः
विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते
MBh 13.38.18
न भयान्नाप्यनुक्रोशान्नार्थहेतोः कथंचन
न ज्ञातिकुलसंबन्धात्स्त्रियस्तिष्ठन्ति भर्तृषु
MBh 13.38.19
यौवने वर्तमानानां मृष्टाभरणवाससाम्
नारीणां स्वैरवृत्तानां स्पृहयन्ति कुलस्त्रियः
MBh 13.38.20
याश्च शश्वद्बहुमता रक्ष्यन्ते दयिताः स्त्रियः
अपि ताः संप्रसज्जन्ते कुब्जान्धजडवामनैः
MBh 13.38.21
पङ्गुष्वपि च देवर्षे ये चान्ये कुत्सिता नराः
स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्चिन्महामुने
MBh 13.38.22
यदि पुंसां गतिर्ब्रह्म कथंचिन्नोपपद्यते
अप्यन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु
MBh 13.38.23
अलाभात्पुरुषाणां हि भयात्परिजनस्य च
वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः
MBh 13.38.24
चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस्तथा
प्राज्ञस्य पुरुषस्येह यथा वाचस्तथा स्त्रियः
MBh 13.38.25
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः
MBh 13.38.26
इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम्
दृष्ट्वैव पुरुषं हृद्यं योनिः प्रक्लिद्यते स्त्रियः
MBh 13.38.27
कामानामपि दातारं कर्तारं मानसान्त्वयोः
रक्षितारं न मृष्यन्ति भर्तारं परमं स्त्रियः
MBh 13.38.28
न कामभोगान्बहुलान्नालंकारार्थसंचयान्
तथैव बहु मन्यन्ते यथा रत्यामनुग्रहम्
MBh 13.38.29
अन्तकः शमनो मृत्युः पातालं वडवामुखम्
क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः
MBh 13.38.30
यतश्च भूतानि महान्ति पञ्च; यतश्च लोका विहिता विधात्रा
यतः पुमांसः प्रमदाश्च निर्मिता;स्तदैव दोषाः प्रमदासु नारद
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 37
- Next chapter · Anuśāsana-Parva Ch 39 →
Sources and Connected Readings
Continue from these 30 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.38local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷