🪷 Mahābhārata · Anuśāsana-Parva · Chapter 31
The Book of the Final Teaching · Parva 13 · 64 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 64 Shlokas
MBh 13.31.1
युधिष्ठिर उवाच
श्रुतं मे महदाख्यानमेतत्कुरुकुलोद्वह
सुदुष्प्रापं ब्रवीषि त्वं ब्राह्मण्यं वदतां वर
MBh 13.31.2
विश्वामित्रेण च पुरा ब्राह्मण्यं प्राप्तमित्युत
श्रूयते वदसे तच्च दुष्प्रापमिति सत्तम
MBh 13.31.3
वीतहव्यश्च राजर्षिः श्रुतो मे विप्रतां गतः
तदेव तावद्गाङ्गेय श्रोतुमिच्छाम्यहं विभो
MBh 13.31.4
स केन कर्मणा प्राप्तो ब्राह्मण्यं राजसत्तम
वरेण तपसा वापि तन्मे व्याख्यातुमर्हति
MBh 13.31.5
भीष्म उवाच
शृणु राजन्यथा राजा वीतहव्यो महायशाः
क्षत्रियः सन्पुनः प्राप्तो ब्राह्मण्यं लोकसत्कृतम्
MBh 13.31.6
मनोर्महात्मनस्तात प्रजाधर्मेण शासतः
बभूव पुत्रो धर्मात्मा शर्यातिरिति विश्रुतः
MBh 13.31.7
तस्यान्ववाये द्वौ राजन्राजानौ संबभूवतुः
हेहयस्तालजङ्घश्च वत्सेषु जयतां वर
MBh 13.31.8
हेहयस्य तु पुत्राणां दशसु स्त्रीषु भारत
शतं बभूव प्रख्यातं शूराणामनिवर्तिनाम्
MBh 13.31.9
तुल्यरूपप्रभावाणां विदुषां युद्धशालिनाम्
धनुर्वेदे च वेदे च सर्वत्रैव कृतश्रमाः
MBh 13.31.10
काशिष्वपि नृपो राजन्दिवोदासपितामहः
हर्यश्व इति विख्यातो बभूव जयतां वरः
MBh 13.31.11
स वीतहव्यदायादैरागत्य पुरुषर्षभ
गङ्गायमुनयोर्मध्ये संग्रामे विनिपातितः
MBh 13.31.12
तं तु हत्वा नरवरं हेहयास्ते महारथाः
प्रतिजग्मुः पुरीं रम्यां वत्सानामकुतोभयाः
MBh 13.31.13
हर्यश्वस्य तु दायादः काशिराजोऽभ्यषिच्यत
सुदेवो देवसंकाशः साक्षाद्धर्म इवापरः
MBh 13.31.14
स पालयन्नेव महीं धर्मात्मा काशिनन्दनः
तैर्वीतहव्यैरागत्य युधि सर्वैर्विनिर्जितः
MBh 13.31.15
तमप्याजौ विनिर्जित्य प्रतिजग्मुर्यथागतम्
सौदेविस्त्वथ काशीशो दिवोदासोऽभ्यषिच्यत
MBh 13.31.16
दिवोदासस्तु विज्ञाय वीर्यं तेषां महात्मनाम्
वाराणसीं महातेजा निर्ममे शक्रशासनात्
MBh 13.31.17
विप्रक्षत्रियसंबाधां वैश्यशूद्रसमाकुलाम्
नैकद्रव्योच्चयवतीं समृद्धविपणापणाम्
MBh 13.31.18
गङ्गाया उत्तरे कूले वप्रान्ते राजसत्तम
गोमत्या दक्षिणे चैव शक्रस्येवामरावतीम्
MBh 13.31.19
तत्र तं राजशार्दूलं निवसन्तं महीपतिम्
आगत्य हेहया भूयः पर्यधावन्त भारत
MBh 13.31.20
स निष्पत्य ददौ युद्धं तेभ्यो राजा महाबलः
देवासुरसमं घोरं दिवोदासो महाद्युतिः
MBh 13.31.21
स तु युद्धे महाराज दिनानां दशतीर्दश
हतवाहनभूयिष्ठस्ततो दैन्यमुपागमत्
MBh 13.31.22
हतयोधस्ततो राजन्क्षीणकोशश्च भूमिपः
दिवोदासः पुरीं हित्वा पलायनपरोऽभवत्
MBh 13.31.23
स त्वाश्रममुपागम्य भरद्वाजस्य धीमतः
जगाम शरणं राजा कृताञ्जलिररिंदम
MBh 13.31.24
राजोवाच
भगवन्वैतहव्यैर्मे युद्धे वंशः प्रणाशितः
अहमेकः परिद्यूनो भवन्तं शरणं गतः
MBh 13.31.25
शिष्यस्नेहेन भगवन्स मां रक्षितुमर्हसि
निःशेषो हि कृतो वंशो मम तैः पापकर्मभिः
MBh 13.31.26
तमुवाच महाभागो भरद्वाजः प्रतापवान्
न भेतव्यं न भेतव्यं सौदेव व्येतु ते भयम्
MBh 13.31.27
अहमिष्टिं करोम्यद्य पुत्रार्थं ते विशां पते
वैतहव्यसहस्राणि यथा त्वं प्रसहिष्यसि
MBh 13.31.28
तत इष्टिं चकारर्षिस्तस्य वै पुत्रकामिकीम्
अथास्य तनयो जज्ञे प्रतर्दन इति श्रुतः
MBh 13.31.29
स जातमात्रो ववृधे समाः सद्यस्त्रयोदश
वेदं चाधिजगे कृत्स्नं धनुर्वेदं च भारत
MBh 13.31.30
योगेन च समाविष्टो भरद्वाजेन धीमता
तेजो लौक्यं स संगृह्य तस्मिन्देशे समाविशत्
MBh 13.31.31
ततः स कवची धन्वी बाणी दीप्त इवानलः
प्रययौ स धनुर्धुन्वन्विवर्षुरिव तोयदः
MBh 13.31.32
तं दृष्ट्वा परमं हर्षं सुदेवतनयो ययौ
मेने च मनसा दग्धान्वैतहव्यान्स पार्थिवः
MBh 13.31.33
ततस्तं यौवराज्येन स्थापयित्वा प्रतर्दनम्
कृतकृत्यं तदात्मानं स राजा अभ्यनन्दत
MBh 13.31.34
ततस्तु वैतहव्यानां वधाय स महीपतिः
पुत्रं प्रस्थापयामास प्रतर्दनमरिंदमम्
MBh 13.31.35
सरथः स तु संतीर्य गङ्गामाशु पराक्रमी
प्रययौ वीतहव्यानां पुरीं परपुरंजयः
MBh 13.31.36
वैतहव्यास्तु संश्रुत्य रथघोषं समुद्धतम्
निर्ययुर्नगराकारै रथैः पररथारुजैः
MBh 13.31.37
निष्क्रम्य ते नरव्याघ्रा दंशिताश्चित्रयोधिनः
प्रतर्दनं समाजघ्नुः शरवर्षैरुदायुधाः
MBh 13.31.38
अस्त्रैश्च विविधाकारै रथौघैश्च युधिष्ठिर
अभ्यवर्षन्त राजानं हिमवन्तमिवाम्बुदाः
MBh 13.31.39
अस्त्रैरस्त्राणि संवार्य तेषां राजा प्रतर्दनः
जघान तान्महातेजा वज्रानलसमैः शरैः
MBh 13.31.40
कृत्तोत्तमाङ्गास्ते राजन्भल्लैः शतसहस्रशः
अपतन्रुधिरार्द्राङ्गा निकृत्ता इव किंशुकाः
MBh 13.31.41
हतेषु तेषु सर्वेषु वीतहव्यः सुतेष्वथ
प्राद्रवन्नगरं हित्वा भृगोराश्रममप्युत
MBh 13.31.42
ययौ भृगुं च शरणं वीतहव्यो नराधिपः
अभयं च ददौ तस्मै राज्ञे राजन्भृगुस्तथा
ततो ददावासनं च तस्मै शिष्यो भृगोस्तदा
MBh 13.31.43
अथानुपदमेवाशु तत्रागच्छत्प्रतर्दनः
स प्राप्य चाश्रमपदं दिवोदासात्मजोऽब्रवीत्
MBh 13.31.44
भो भोः केऽत्राश्रमे सन्ति भृगोः शिष्या महात्मनः
द्रष्टुमिच्छे मुनिमहं तस्याचक्षत मामिति
MBh 13.31.45
स तं विदित्वा तु भृगुर्निश्चक्रामाश्रमात्तदा
पूजयामास च ततो विधिना परमेण ह
MBh 13.31.46
उवाच चैनं राजेन्द्र किं कार्यमिति पार्थिवम्
स चोवाच नृपस्तस्मै यदागमनकारणम्
MBh 13.31.47
अयं ब्रह्मन्नितो राजा वीतहव्यो विसर्ज्यताम्
अस्य पुत्रैर्हि मे ब्रह्मन्कृत्स्नो वंशः प्रणाशितः
उत्सादितश्च विषयः काशीनां रत्नसंचयः
MBh 13.31.48
एतस्य वीर्यदृप्तस्य हतं पुत्रशतं मया
अस्येदानीं वधाद्ब्रह्मन्भविष्याम्यनृणः पितुः
MBh 13.31.49
तमुवाच कृपाविष्टो भृगुर्धर्मभृतां वरः
नेहास्ति क्षत्रियः कश्चित्सर्वे हीमे द्विजातयः
MBh 13.31.50
एवं तु वचनं श्रुत्वा भृगोस्तथ्यं प्रतर्दनः
पादावुपस्पृश्य शनैः प्रहसन्वाक्यमब्रवीत्
MBh 13.31.51
एवमप्यस्मि भगवन्कृतकृत्यो न संशयः
यदेष राजा वीर्येण स्वजातिं त्याजितो मया
MBh 13.31.52
अनुजानीहि मां ब्रह्मन्ध्यायस्व च शिवेन माम्
त्याजितो हि मया जातिमेष राजा भृगूद्वह
MBh 13.31.53
ततस्तेनाभ्यनुज्ञातो ययौ राजा प्रतर्दनः
यथागतं महाराज मुक्त्वा विषमिवोरगः
MBh 13.31.54
भृगोर्वचनमात्रेण स च ब्रह्मर्षितां गतः
वीतहव्यो महाराज ब्रह्मवादित्वमेव च
MBh 13.31.55
तस्य गृत्समदः पुत्रो रूपेणेन्द्र इवापरः
शक्रस्त्वमिति यो दैत्यैर्निगृहीतः किलाभवत्
MBh 13.31.56
ऋग्वेदे वर्तते चाग्र्या श्रुतिरत्र विशां पते
यत्र गृत्समदो ब्रह्मन्ब्राह्मणैः स महीयते
MBh 13.31.57
स ब्रह्मचारी विप्रर्षिः श्रीमान्गृत्समदोऽभवत्
पुत्रो गृत्समदस्यापि सुचेता अभवद्द्विजः
MBh 13.31.58
वर्चाः सुतेजसः पुत्रो विहव्यस्तस्य चात्मजः
विहव्यस्य तु पुत्रस्तु वितत्यस्तस्य चात्मजः
MBh 13.31.59
वितत्यस्य सुतः सत्यः सन्तः सत्यस्य चात्मजः
श्रवास्तस्य सुतश्चर्षिः श्रवसश्चाभवत्तमः
MBh 13.31.60
तमसश्च प्रकाशोऽभूत्तनयो द्विजसत्तमः
प्रकाशस्य च वागिन्द्रो बभूव जयतां वरः
MBh 13.31.61
तस्यात्मजश्च प्रमतिर्वेदवेदाङ्गपारगः
घृताच्यां तस्य पुत्रस्तु रुरुर्नामोदपद्यत
MBh 13.31.62
प्रमद्वरायां तु रुरोः पुत्रः समुदपद्यत
शुनको नाम विप्रर्षिर्यस्य पुत्रोऽथ शौनकः
MBh 13.31.63
एवं विप्रत्वमगमद्वीतहव्यो नराधिपः
भृगोः प्रसादाद्राजेन्द्र क्षत्रियः क्षत्रियर्षभ
MBh 13.31.64
तथैव कथितो वंशो मया गार्त्समदस्तव
विस्तरेण महाराज किमन्यदनुपृच्छसि
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 30
- Next chapter · Anuśāsana-Parva Ch 32 →
Sources and Connected Readings
Continue from these 64 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.31local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷