🪷 Mahābhārata · Anuśāsana-Parva · Chapter 151

The Book of the Final Teaching · Parva 13 · 51 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 51 Shlokas

MBh 13.151.1
युधिष्ठिर उवाच किं श्रेयः पुरुषस्येह किं कुर्वन्सुखमेधते विपाप्मा च भवेत्केन किं वा कल्मषनाशनम्
MBh 13.151.2
भीष्म उवाच अयं दैवतवंशो वै ऋषिवंशसमन्वितः द्विसंध्यं पठितः पुत्र कल्मषापहरः परः
MBh 13.151.3
देवासुरगुरुर्देवः सर्वभूतनमस्कृतः अचिन्त्योऽथाप्यनिर्देश्यः सर्वप्राणो ह्ययोनिजः
MBh 13.151.4
पितामहो जगन्नाथः सावित्री ब्रह्मणः सती वेदभूरथ कर्ता च विष्णुर्नारायणः प्रभुः
MBh 13.151.5
उमापतिर्विरूपाक्षः स्कन्दः सेनापतिस्तथा विशाखो हुतभुग्वायुश्चन्द्रादित्यौ प्रभाकरौ
MBh 13.151.6
शक्रः शचीपतिर्देवो यमो धूमोर्णया सह वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः
MBh 13.151.7
सौम्या गौः सुरभिर्देवी विश्रवाश्च महानृषिः षट्कालः सागरो गङ्गा स्रवन्त्योऽथ मरुद्गणाः
MBh 13.151.8
वालखिल्यास्तपःसिद्धाः कृष्णद्वैपायनस्तथा नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः
MBh 13.151.9
तुम्बरुश्चित्रसेनश्च देवदूतश्च विश्रुतः देवकन्या महाभागा दिव्याश्चाप्सरसां गणाः
MBh 13.151.10
उर्वशी मेनका रम्भा मिश्रकेशी अलम्बुषा विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा
MBh 13.151.11
आदित्या वसवो रुद्राः साश्विनः पितरोऽपि च धर्मः सत्यं तपो दीक्षा व्यवसायः पितामहः
MBh 13.151.12
शर्वर्यो दिवसाश्चैव मारीचः कश्यपस्तथा शुक्रो बृहस्पतिर्भौमो बुधो राहुः शनैश्चरः
MBh 13.151.13
नक्षत्राण्यृतवश्चैव मासाः संध्याः सवत्सराः वैनतेयाः समुद्राश्च कद्रुजाः पन्नगास्तथा
MBh 13.151.14
शतद्रूश्च विपाशा च चन्द्रभागा सरस्वती सिन्धुश्च देविका चैव पुष्करं तीर्थमेव च
MBh 13.151.15
गङ्गा महानदी चैव कपिला नर्मदा तथा कम्पुना च विशल्या च करतोयाम्बुवाहिनी
MBh 13.151.16
सरयूर्गण्डकी चैव लोहित्यश्च महानदः ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा
MBh 13.151.17
गोदावरी च वेण्णा च कृष्णवेणा तथाद्रिजा दृषद्वती च कावेरी वंक्षुर्मन्दाकिनी तथा
MBh 13.151.18
प्रयागं च प्रभासं च पुण्यं नैमिषमेव च तच्च विश्वेश्वरस्थानं यत्र तद्विमलं सरः
MBh 13.151.19
पुण्यतीर्थैश्च कलिलं कुरुक्षेत्रं प्रकीर्तितम् सिन्धूत्तमं तपोदानं जम्बूमार्गमथापि च
MBh 13.151.20
हिरण्वती वितस्ता च तथैवेक्षुमती नदी वेदस्मृतिर्वैदसिनी मलवासाश्च नद्यपि
MBh 13.151.21
भूमिभागास्तथा पुण्या गङ्गाद्वारमथापि च ऋषिकुल्यास्तथा मेध्या नदी चित्रपथा तथा
MBh 13.151.22
कौशिकी यमुना सीता तथा चर्मण्वती नदी नदी भीमरथी चैव बाहुदा च महानदी महेन्द्रवाणी त्रिदिवा नीलिका च सरस्वती
MBh 13.151.23
नन्दा चापरनन्दा च तथा तीर्थं महाह्रदम् गयाथ फल्गुतीर्थं च धर्मारण्यं सुरैर्वृतम्
MBh 13.151.24
तथा देवनदी पुण्या सरश्च ब्रह्मनिर्मितम् पुण्यं त्रिलोकविख्यातं सर्वपापहरं शिवम्
MBh 13.151.25
हिमवान्पर्वतश्चैव दिव्यौषधिसमन्वितः विन्ध्यो धातुविचित्राङ्गस्तीर्थवानौषधान्वितः
MBh 13.151.26
मेरुर्महेन्द्रो मलयः श्वेतश्च रजताचितः शृङ्गवान्मन्दरो नीलो निषधो दर्दुरस्तथा
MBh 13.151.27
चित्रकूटोऽञ्जनाभश्च पर्वतो गन्धमादनः पुण्यः सोमगिरिश्चैव तथैवान्ये महीधराः दिशश्च विदिशश्चैव क्षितिः सर्वे महीरुहाः
MBh 13.151.28
विश्वेदेवा नभश्चैव नक्षत्राणि ग्रहास्तथा पान्तु वः सततं देवाः कीर्तिताकीर्तिता मया
MBh 13.151.29
कीर्तयानो नरो ह्येतान्मुच्यते सर्वकिल्बिषैः स्तुवंश्च प्रतिनन्दंश्च मुच्यते सर्वतो भयात् सर्वसंकरपापेभ्यो देवतास्तवनन्दकः
MBh 13.151.30
देवतानन्तरं विप्रांस्तपःसिद्धांस्तपोधिकान् कीर्तितान्कीर्तयिष्यामि सर्वपापप्रमोचनान्
MBh 13.151.31
यवक्रीतोऽथ रैभ्यश्च कक्षीवानौशिजस्तथा भृग्वङ्गिरास्तथा कण्वो मेधातिथिरथ प्रभुः बर्ही च गुणसंपन्नः प्राचीं दिशमुपाश्रिताः
MBh 13.151.32
भद्रां दिशं महाभागा उल्मुचुः प्रमुचुस्तथा मुमुचुश्च महाभागः स्वस्त्यात्रेयश्च वीर्यवान्
MBh 13.151.33
मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान् दृढायुश्चोर्ध्वबाहुश्च विश्रुतावृषिसत्तमौ
MBh 13.151.34
पश्चिमां दिशमाश्रित्य य एधन्ते निबोध तान् उषद्गुः सह सोदर्यैः परिव्याधश्च वीर्यवान्
MBh 13.151.35
ऋषिर्दीर्घतमाश्चैव गौतमः कश्यपस्तथा एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः अत्रेः पुत्रश्च धर्मात्मा तथा सारस्वतः प्रभुः
MBh 13.151.36
उत्तरां दिशमाश्रित्य य एधन्ते निबोध तान् अत्रिर्वसिष्ठः शक्तिश्च पाराशर्यश्च वीर्यवान्
MBh 13.151.37
विश्वामित्रो भरद्वाजो जमदग्निस्तथैव च ऋचीकपौत्रो रामश्च ऋषिरौद्दालकिस्तथा
MBh 13.151.38
श्वेतकेतुः कोहलश्च विपुलो देवलस्तथा देवशर्मा च धौम्यश्च हस्तिकाश्यप एव च
MBh 13.151.39
लोमशो नाचिकेतश्च लोमहर्षण एव च ऋषिरुग्रश्रवाश्चैव भार्गवश्च्यवनस्तथा
MBh 13.151.40
एष वै समवायस्ते ऋषिदेवसमन्वितः आद्यः प्रकीर्तितो राजन्सर्वपापप्रमोचनः
MBh 13.151.41
नृगो ययातिर्नहुषो यदुः पूरुश्च वीर्यवान् धुन्धुमारो दिलीपश्च सगरश्च प्रतापवान्
MBh 13.151.42
कृशाश्वो यौवनाश्वश्च चित्राश्वः सत्यवांस्तथा दुःषन्तो भरतश्चैव चक्रवर्ती महायशाः
MBh 13.151.43
यवनो जनकश्चैव तथा दृढरथो नृपः रघुर्नरवरश्चैव तथा दशरथो नृपः
MBh 13.151.44
रामो राक्षसहा वीरः शशबिन्दुर्भगीरथः हरिश्चन्द्रो मरुत्तश्च जह्नुर्जाह्नविसेविता
MBh 13.151.45
महोदयो ह्यलर्कश्च ऐलश्चैव नराधिपः करंधमो नरश्रेष्ठः कध्मोरश्च नराधिपः
MBh 13.151.46
दक्षोऽम्बरीषः कुकुरो रवतश्च महायशाः मुचुकुन्दश्च राजर्षिर्मित्रभानुः प्रियंकरः
MBh 13.151.47
त्रसदस्युस्तथा राजा श्वेतो राजर्षिसत्तमः महाभिषश्च विख्यातो निमिराजस्तथाष्टकः
MBh 13.151.48
आयुः क्षुपश्च राजर्षिः कक्षेयुश्च नराधिपः शिबिरौशीनरश्चैव गयश्चैव नराधिपः
MBh 13.151.49
प्रतर्दनो दिवोदासः सौदासः कोसलेश्वरः ऐलो नलश्च राजर्षिर्मनुश्चैव प्रजापतिः
MBh 13.151.50
हविध्रश्च पृषध्रश्च प्रतीपः शंतनुस्तथा कक्षसेनश्च राजर्षिर्ये चान्ये नानुकीर्तिताः
MBh 13.151.51
मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः ध्रुवो जयो मे नित्यं स्यात्परत्र च परा गतिः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 51 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.151local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷