🪷 Mahābhārata · Ādi-Parva · Chapter 78

The Book of the Beginning · Parva 1 · 41 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 41 Shlokas

MBh 1.78.1
[व] शरुत्वा कुमारं जातं तु देव यानी शुचिस्मिता चिन्तयाम आस दुःखार्ता शर्मिष्ठां परति भारत
MBh 1.78.2
अभिगम्य च शर्मिष्ठां देव यान्य अब्रवीद इदम किम इदं वृजिनं सुभ्रु कृतं ते कामलुब्धया
MBh 1.78.3
[षर] ऋषिर अभ्यागतः कश चिद धर्मात्मा वेदपारगः स मया वरदः कामं याचितॊ धर्मसंहितम
MBh 1.78.4
नाहम अन्यायतः कामम आचरामि शुचिस्मिते तस्माद ऋषेर ममापत्यम इति सत्यं बरवीमि ते
MBh 1.78.5
[देव] शॊभनं भीरु सत्यं चेद अथ स जञायते दविजः गॊत्र नामाभिजनतॊ वेत्तुम इच्छामि ते दविजम
MBh 1.78.6
[षर] ओजसा तेजसा चैव दीप्यमानं रविं यथा तं दृष्ट्वा मम संप्रष्टुं शक्तिर नासीच छुचि समिते
MBh 1.78.7
[देव] यद्य एतद एवं शर्मिष्ठे न मनुर विद्यते मम अपत्यं यदि ते लब्धं जयेष्ठाच छरेष्ठाच च वै दविजात
MBh 1.78.8
[व] अन्यॊन्यम एवम उक्त्वा च संप्रहस्य च ते मिथः जगाम भार्गवी वेश्म तथ्यम इत्य एव जज्ञुषी
MBh 1.78.9
ययातिर देव यान्यां तु पुत्राव अजनयन नृपः यदुं च तुर्वसुं चैव शक्र विष्णू इवापरौ
MBh 1.78.10
तस्माद एव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी दरुह्युं चानुं च पूरुं च तरीन कुमारान अजीजनत
MBh 1.78.11
ततः काले तु कस्मिंश चिद देव यानी शुचिस्मिता ययाति सहिता राजन निर्जगाम महावनम
MBh 1.78.12
ददर्श च तदा तत्र कुमारान देवरूपिणः करीडमानान सुविश्रब्धान विस्मिता चेदम अब्रवीत
MBh 1.78.13
कस्यैते दारका राजन देवपुत्रॊपमाः शुभाः वर्चसा रूपतश चैव सदृशा मे मतास तव
MBh 1.78.14
एवं पृष्ट्वा तु राजानं कुमारान पर्यपृच्छत किंनामधेय गॊत्रॊ वः पुत्रका बराह्मणः पिता विब्रूत मे यथातथ्यं शरॊतुम इच्छामि तं हय अहम
MBh 1.78.15
ते ऽदर्शयन परदेशिन्या तम एव नृपसत्तमम शर्मिष्ठां मातरं चैव तस्याचख्युश च दारकाः
MBh 1.78.16
इत्य उक्त्वा सहितास ते तु राजानम उपचक्रमुः नाभ्यनन्दत तान राजा देव यान्यास तदान्तिके रुदन्तस ते ऽथ शर्मिष्ठाम अभ्ययुर बालकास ततः
MBh 1.78.17
दृष्ट्वा तु तेषां बालानां परणयं पार्थिवं परति बुद्ध्वा च तत्त्वतॊ देवी शर्मिष्ठाम इदम अब्रवीत
MBh 1.78.18
मदधीना सती कस्माद अकार्षीर विप्रियं मम तम एवासुरधर्मं तवम आस्थिता न बिभेषि किम
MBh 1.78.19
[ष] यद उक्तम ऋषिर इत्य एव तत सत्यं चारुहासिनि नयायतॊ धर्मतश चैव चरन्ती न बिभेमि ते
MBh 1.78.20
यदा तवया वृतॊ राजा वृत एव तदा मया सखी भर्ता हि धर्मेण भर्ता भवति शॊभने
MBh 1.78.21
पूज्यासि मम मान्या च जयेष्ठा शरेष्ठा च बराह्मणी तवत्तॊ ऽपि मे पूज्यतमॊ राजर्षिः किं न वेत्थ तत
MBh 1.78.22
[व] शरुत्वा तस्यास ततॊ वाक्यं देव यान्य अब्रवीद इदम राजन नाद्येह वत्स्यामि विप्रियं मे कृतं तवया
MBh 1.78.23
सहसॊत्पतितां शयामां दृष्ट्वा तां साश्रुलॊचनाम तवरितं सकाशं काव्यस्य परस्थितां वयथितस तदा
MBh 1.78.24
अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन नृपः नयवर्तत न चैव सम करॊधसंरक्तलॊचना
MBh 1.78.25
अविब्रुवन्ती किं चित तु राजानं चारुलॊचना अचिराद इव संप्राप्ता काव्यस्यॊशनसॊ ऽनतिकम
MBh 1.78.26
सा तु दृष्ट्वैव पितरम अभिवाद्याग्रतः सथिता अनन्तरं ययातिस तु पूजयाम आस भार्गवम
MBh 1.78.27
[देव] अधर्मेण जितॊ धर्मः परवृत्तम अधरॊत्तरम शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः
MBh 1.78.28
तरयॊ ऽसयां जनिताः पुत्रा राज्ञानेन ययातिना दुर्भगाया मम दवौ तु पुत्रौ तात बरवीमि ते
MBh 1.78.29
धर्मज्ञ इति विख्यात एष राजा भृगूद्वह अतिक्रान्तश च मर्यादां काव्यैतत कथयामि ते
MBh 1.78.30
[षु] धर्मज्ञः सन महाराज यॊ ऽधर्मम अकृथाः परियम तस्माज जरा तवाम अचिराद धर्षयिष्यति दुर्जया
MBh 1.78.31
[य] ऋतुं वै याचमानाया भगवन नान्यचेतसा दुहितुर दानवेन्द्रस्य धर्म्यम एतत कृतं मया
MBh 1.78.32
ऋतुं वै याचमानाया न ददाति पुमान वृतः भरूणहेत्य उच्यते बरह्मन स इह बरह्मवादिभिः
MBh 1.78.33
अभिकामां सत्रियं यस तु गम्यां रहसि याचितः नॊपैति स च धर्मेषु भरूणहेत्य उच्यते बुधैः
MBh 1.78.34
इत्य एतानि समीक्ष्याहं कारणानि भृगूद्वह अधर्मभयसंविग्नः शर्मिष्ठाम उपजग्मिवान
MBh 1.78.35
[षु] नन्व अहं परत्यवेष्क्यस ते मदधीनॊ ऽसि पार्थिव मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष
MBh 1.78.36
[व] करुद्धेनॊशनसा शप्तॊ ययातिर नाहुषस तदा पूर्वं वयः परित्यज्य जरां सद्यॊ ऽनवपद्यत
MBh 1.78.37
[य] अतृप्तॊ यौवनस्याहं देव यान्यां भृगूद्वह परसादं कुरु मे बरह्मञ जरेयं मा विशेत माम
MBh 1.78.38
[षु] नाहं मृषा बरवीम्य एतज जरां पराप्तॊ ऽसि भूमिप जरां तव एतां तवम अन्यस्मै संक्रामय यदीच्छसि
MBh 1.78.39
[य] राज्यभाक स भवेद बरह्मन पुण्यभाक कीर्तिभाक तथा यॊ मे दद्याद वयः पुत्रस तद भवान अनुमन्यताम
MBh 1.78.40
[षु] संक्रामयिष्यसि जरां यथेष्टं नहुषात्मज माम अनुध्याय भावेन न च पापम अवाप्स्यसि
MBh 1.78.41
वयॊ दास्यति ते पुत्रॊ यः स राजा भविष्यति आयुष्मान कीर्तिमांश चैव बह्व अपत्यस तथैव च

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷