🪷 Mahābhārata · Ādi-Parva · Chapter 75

The Book of the Beginning · Parva 1 · 25 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 25 Shlokas

MBh 1.75.1
[व] ततः काव्यॊ भृगुश्रेष्ठः समन्युर उपगम्य ह वृषपर्वाणम आसीनम इत्य उवाचाविचारयन
MBh 1.75.2
नाधर्मश चरितॊ राजन सद्यः फलति गौर इव पुत्रेषु वा नप्तृषु वा न चेद आत्मनि पश्यति फलत्य एव धरुवं पापं गुरु भुक्तम इवॊदरे
MBh 1.75.3
यद अघातयथा विप्रं कचम आङ्गिरसं तदा अपापशीलं धर्मज्ञं शुश्रूषं मद्गृहे रतम
MBh 1.75.4
वधाद अनर्हतस तस्य वधाच च दुहितुर मम वृषपर्वन निबॊधेदं तयक्ष्यामि तवां सबान्धवम सथातुं तवद विषये राजन न शक्ष्यामि तवया सह
MBh 1.75.5
अहॊ माम अभिजानासि दैत्य मिथ्या परलापिनम यथेमम आत्मनॊ दॊषं न नियच्छस्य उपेक्षसे
MBh 1.75.6
[वृ] नाधर्मं न मृषावादं तवयि जानामि भार्गव तवयि धर्मश च सत्यं च तत परसीदतु नॊ भवान
MBh 1.75.7
यद्य अस्मान अपहाय तवम इतॊ गच्छसि भार्गव समुद्रं संप्रवेष्क्यामॊ नान्यद अस्ति परायणम
MBh 1.75.8
[षु] समुद्रं परविशध्वं वा दिशॊ वा दरवतासुराः दुहितुर नाप्रियं सॊढुं शक्तॊ ऽहं दयिता हि मे
MBh 1.75.9
परसाद्यतां देव यानी जीवितं हय अत्र मे सथितम यॊगक्षेम करस ते ऽहम इन्द्रस्येव बृहस्पतिः
MBh 1.75.10
[वृ] यत किं चिद असुरेन्द्राणां विद्यते वसु भार्गव भुवि हस्तिगवाश्वं वा तस्य तवं मम चेश्वरः
MBh 1.75.11
[षु] यत किं चिद अस्ति दरविणं दैत्येन्द्राणां महासुर तस्येश्वरॊ ऽसमि यदि ते देव यानी परसाद्यताम
MBh 1.75.12
[देव] यदि तवम ईश्वरस तात राज्ञॊ वित्तस्य भार्गव नाभिजानामि तत ते ऽहं राजा तु वदतु सवयम
MBh 1.75.13
[वृ] यं कामम अभिकामासि देव यानि शुचिस्मिते तत ते ऽहं संप्रदास्यामि यदि चेद अपि दुर्लभम
MBh 1.75.14
[देव] दासीं कन्या सहस्रेण शर्मिष्ठाम अभिकामये अनु मां तत्र गच्छेत सा यत्र दास्यति मे पिता
MBh 1.75.15
[वृ] उत्तिष्ठ हे संग्रहीत्रि शर्मिष्ठां शीघ्रम आनय यं च कामयते कामं देव यानी करॊतु तम
MBh 1.75.16
[व] ततॊ धात्री तत्र गत्वा शर्मिष्ठां वाक्यम अब्रवीत उत्तिष्ठ भद्रे शर्मिष्ठे जञातीनां सुखम आवह
MBh 1.75.17
तयजति बराह्मणः शिष्यान देव यान्या परचॊदितः सा यं कामयते कामं स कार्यॊ ऽदय तवयानघे
MBh 1.75.18
[षर] सा यं कामयते कामं करवाण्य अहम अद्य तम मा तव एवापगमच छुक्रॊ देव यानी च मत्कृते
MBh 1.75.19
[व] ततः कन्या सहस्रेण वृता शिबिकया तदा पितुर नियॊगात तवरिता निश्चक्राम पुरॊत्तमात
MBh 1.75.20
[षर] अहं कन्या सहस्रेण दासी ते परिचारिका अनु तवां तत्र यास्यामि यत्र दास्यति ते पिता
MBh 1.75.21
[देव] सतुवतॊ दुहिता ते ऽहं बन्दिनः परतिगृह्णतः सतूयमानस्य दुहिता कथं दासी भविष्यसि
MBh 1.75.22
[षर] येन केन चिद आर्तानां जञातीनां सुखम आवहेत अतस तवाम अनुयास्यामि यत्र दास्यति ते पिता
MBh 1.75.23
[व] परतिश्रुते दासभावे दुहित्रा वृषपर्वणः देव यानी नृपश्रेष्ठ पितरं वाक्यम अब्रवीत
MBh 1.75.24
परविशामि पुरं तात तुष्टास्मि दविजसत्तम अमॊघं तव विज्ञानम अस्ति विद्या बलं च ते
MBh 1.75.25
एवम उक्तॊ दुहित्रा स दविजश्रेष्ठॊ महायशाः परविवेश पुरं हृष्टः पूजितः सर्वदानवैः

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷