🪷 Mahābhārata · Ādi-Parva · Chapter 4

The Book of the Beginning · Parva 1 · 11 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 11 Shlokas

MBh 1.4.1
लॊमहर्षण पुत्र उग्रश्रवाः सूतः पौराणिकॊ नैमिषारण्ये शौनकस्य कुलपतेर दवादश वार्षिके सत्रे ऋषीन अभ्यागतान उपतस्थे
MBh 1.4.2
पौराणिकः पुराणे कृतश्रमः स तान कृताञ्जलिर उवाच किं भवन्तः शरॊतुम इच्छन्ति किम अहं बरुवाणीति
MBh 1.4.3
तम ऋषय ऊचुः परमं लॊमहर्षणे परक्ष्यामस तवां वक्ष्यसि च नः शुश्रूषतां कथा यॊगम तद भगवांस तु तावच छौनकॊ ऽगनिशरणम अध्यास्ते
MBh 1.4.4
यॊ ऽसौ दिव्याः कथा वेद देवतासुरसंकथाः मनुष्यॊरगगन्धर्वकथा वेद स सर्वशः
MBh 1.4.5
स चाप्य अस्मिन मखे सौते विद्वान कुलपतिर दविजः दक्षॊ धृतव्रतॊ धीमाञ शास्त्रे चारण्यके गुरुः
MBh 1.4.6
सत्यवादी शम परस तपस्वी नियतव्रतः सर्वेषाम एव नॊ मान्यः स तावत परतिपाल्यताम
MBh 1.4.7
तस्मिन्न अध्यासति गुराव आसनं परमार्चितम ततॊ वक्ष्यसि यत तवां स परक्ष्यति दविजसत्तमः
MBh 1.4.8
[सूत] एवम अस्तु गुरौ तस्मिन्न उपविष्टे महात्मनि तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः
MBh 1.4.9
सॊ ऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम देवान वाग्भिः पितॄन अद्भिस तर्पयित्वाजगाम ह
MBh 1.4.10
यत्र बरह्मर्षयः सिद्धास त आसीना यतव्रताः यज्ञायतनम आश्रित्य सूतपुत्र पुरःसराः
MBh 1.4.11
ऋत्विक्ष्व अथ सदस्येषु स वै गृहपतिस ततः उपविष्टेषूपविष्टः शौनकॊ ऽथाब्रवीद इदम

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷