🪷 Mahābhārata · Ādi-Parva · Chapter 26
The Book of the Beginning · Parva 1 · 47 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 47 Shlokas
MBh 1.26.1
सूत उवाच
स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा
अभज्यत तरोः शाखा भग्नां चैनामधारयत्
MBh 1.26.2
तां भग्नां स महाशाखां स्मयन्समवलोकयन्
अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान्
MBh 1.26.3
स तद्विनाशसंत्रासादनुपत्य खगाधिपः
शाखामास्येन जग्राह तेषामेवान्ववेक्षया
शनैः पर्यपतत्पक्षी पर्वतान्प्रविशातयन्
MBh 1.26.4
एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः
दयार्थं वालखिल्यानां न च स्थानमविन्दत
MBh 1.26.5
स गत्वा पर्वतश्रेष्ठं गन्धमादनमव्ययम्
ददर्श कश्यपं तत्र पितरं तपसि स्थितम्
MBh 1.26.6
ददर्श तं पिता चापि दिव्यरूपं विहंगमम्
तेजोवीर्यबलोपेतं मनोमारुतरंहसम्
MBh 1.26.7
शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम्
अचिन्त्यमनभिज्ञेयं सर्वभूतभयंकरम्
MBh 1.26.8
मायावीर्यधरं साक्षादग्निमिद्धमिवोद्यतम्
अप्रधृष्यमजेयं च देवदानवराक्षसैः
MBh 1.26.9
भेत्तारं गिरिशृङ्गाणां नदीजलविशोषणम्
लोकसंलोडनं घोरं कृतान्तसमदर्शनम्
MBh 1.26.10
तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा
विदित्वा चास्य संकल्पमिदं वचनमब्रवीत्
MBh 1.26.11
पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम्
मा त्वा दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः
MBh 1.26.12
प्रसादयामास स तान्कश्यपः पुत्रकारणात्
वालखिल्यांस्तपःसिद्धानिदमुद्दिश्य कारणम्
MBh 1.26.13
प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः
चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ
MBh 1.26.14
एवमुक्ता भगवता मुनयस्ते समभ्ययुः
मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोर्थिनः
MBh 1.26.15
ततस्तेष्वपयातेषु पितरं विनतात्मजः
शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम्
MBh 1.26.16
भगवन्क्व विमुञ्चामि तरुशाखामिमामहम्
वर्जितं ब्राह्मणैर्देशमाख्यातु भगवान्मम
MBh 1.26.17
ततो निष्पुरुषं शैलं हिमसंरुद्धकन्दरम्
अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः
MBh 1.26.18
तं पर्वतमहाकुक्षिमाविश्य मनसा खगः
जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः
MBh 1.26.19
न तां वध्रः परिणहेच्छतचर्मा महानणुः
शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः
MBh 1.26.20
ततः स शतसाहस्रं योजनान्तरमागतः
कालेन नातिमहता गरुडः पततां वरः
MBh 1.26.21
स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः
अमुञ्चन्महतीं शाखां सस्वनां तत्र खेचरः
MBh 1.26.22
पक्षानिलहतश्चास्य प्राकम्पत स शैलराट्
मुमोच पुष्पवर्षं च समागलितपादपः
MBh 1.26.23
शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः
मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम्
MBh 1.26.24
शाखिनो बहवश्चापि शाखयाभिहतास्तया
काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः
MBh 1.26.25
ते हेमविकचा भूयो युक्ताः पर्वतधातुभिः
व्यराजञ्शाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः
MBh 1.26.26
ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः
भक्षयामास गरुडस्तावुभौ गजकच्छपौ
MBh 1.26.27
ततः पर्वतकूटाग्रादुत्पपात मनोजवः
प्रावर्तन्ताथ देवानामुत्पाता भयवेदिनः
MBh 1.26.28
इन्द्रस्य वज्रं दयितं प्रजज्वाल व्यथान्वितम्
सधूमा चापतत्सार्चिर्दिवोल्का नभसश्च्युता
MBh 1.26.29
तथा वसूनां रुद्राणामादित्यानां च सर्वशः
साध्यानां मरुतां चैव ये चान्ये देवतागणाः
स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत्
MBh 1.26.30
अभूतपूर्वं संग्रामे तदा देवासुरेऽपि च
ववुर्वाताः सनिर्घाताः पेतुरुल्काः समन्ततः
MBh 1.26.31
निरभ्रमपि चाकाशं प्रजगर्ज महास्वनम्
देवानामपि यो देवः सोऽप्यवर्षदसृक्तदा
MBh 1.26.32
मम्लुर्माल्यानि देवानां शेमुस्तेजांसि चैव हि
उत्पातमेघा रौद्राश्च ववर्षुः शोणितं बहु
रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन्
MBh 1.26.33
ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः
उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम्
MBh 1.26.34
किमर्थं भगवन्घोरा महोत्पाताः समुत्थिताः
न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत्
MBh 1.26.35
बृहस्पतिरुवाच
तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो
तपसा वालखिल्यानां भूतमुत्पन्नमद्भुतम्
MBh 1.26.36
कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः
हर्तुं सोममनुप्राप्तो बलवान्कामरूपवान्
MBh 1.26.37
समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहंगमः
सर्वं संभावयाम्यस्मिन्नसाध्यमपि साधयेत्
MBh 1.26.38
सूत उवाच
श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः
महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः
MBh 1.26.39
युष्मान्संबोधयाम्येष यथा स न हरेद्बलात्
अतुलं हि बलं तस्य बृहस्पतिरुवाच मे
MBh 1.26.40
तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः
परिवार्यामृतं तस्थुर्वज्री चेन्द्रः शतक्रतुः
MBh 1.26.41
धारयन्तो महार्हाणि कवचानि मनस्विनः
काञ्चनानि विचित्राणि वैडूर्यविकृतानि च
MBh 1.26.42
विविधानि च शस्त्राणि घोररूपाण्यनेकशः
शिततीक्ष्णाग्रधाराणि समुद्यम्य सहस्रशः
MBh 1.26.43
सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः
चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान्
MBh 1.26.44
शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान्
स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः
MBh 1.26.45
तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः
भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः
MBh 1.26.46
अनुपमबलवीर्यतेजसो; धृतमनसः परिरक्षणेऽमृतस्य
असुरपुरविदारणाः सुरा; ज्वलनसमिद्धवपुःप्रकाशिनः
MBh 1.26.47
इति समरवरं सुरास्थितं; परिघसहस्रशतैः समाकुलम्
विगलितमिव चाम्बरान्तरे; तपनमरीचिविभासितं बभौ
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 25
- Next chapter · Ādi-Parva Ch 27 →
Sources and Connected Readings
Continue from these 47 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 1.26local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷