🪷 Mahābhārata · Ādi-Parva · Chapter 223

The Book of the Beginning · Parva 1 · 25 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 25 Shlokas

MBh 1.223.1
[जरितारि] पुरतः कृच्छ्रकालस्य धीमाञ जागर्ति पूरुषः स कृच्छ्रकालं संप्राप्य वयथां नैवैति कर्हि चित
MBh 1.223.2
यस तु कृच्छ्रम असंप्राप्तं विचेता नावबुध्यते स कृच्छ्रकाले वयथितॊ न परजानाति किं चन
MBh 1.223.3
[सारिसृक्व] धीरस तवम असि मेधावी पराणकृच्छ्रम इदं च नः शूरः पराज्ञॊ बहूनां हि भवत्य एकॊ न संशयः
MBh 1.223.4
[सतम्बमित्र] जयेष्ठस तराता भवति वै जयेष्ठॊ मुञ्चति कृच्छ्रतः जयेष्ठश चेन न परजानाति कनीयान किं करिष्यति
MBh 1.223.5
[दरॊण] हिरण्यरेतास तवरितॊ जवलन्न आयाति नः कषयम सप्त जिह्वॊ ऽनलः कषामॊ लेलिहानॊपसर्पति
MBh 1.223.6
[वै] एवम उक्तॊ भरातृभिस तु जरितारिर बिभावसुम तुष्टाव पराञ्जलिर भूत्वा यथा तच छृणु पार्थिव
MBh 1.223.7
[जरितारि] आत्मासि वायॊः पवनः शरीरम उत वीरुधाम यॊनिर आपश च ते शुक्रयॊनिस तवम असि चाम्भसः
MBh 1.223.8
ऊर्ध्वं चाधश च गच्छन्ति विसर्पन्ति च पार्श्वतः अर्चिषस ते महावीर्यरश्मयः सवितुर यथा
MBh 1.223.9
[सारिसृक्व] माता परपन्ना पितरं न विद्मः; पक्षाश च नॊ न परजाताब्ज केतॊ न नस तराता विद्यते ऽगने तवदन्यस; तस्माद धि नः परिरक्षैक वीर
MBh 1.223.10
यद अग्ने ते शिवं रूपं ये च ते सप्त हेतवः तेन नः परिरक्षाद्य ईडितः शरणैषिणः
MBh 1.223.11
तवम एवैकस तपसे जातवेदॊ; नान्यस तप्ता विद्यते गॊषु देव ऋषीन अस्मान बालकान पालयस्व; परेणास्मान परैहि वै हव्यवाह
MBh 1.223.12
[सतम्बमित्र] सर्वम अग्ने तवम एवैकस तवयि सर्वम इदं जगत तवं धारयसि भूतानि भुवनं तवं बिभर्षि च
MBh 1.223.13
तवम अग्निर हव्यवाहस तवं तवम एव परमं हविः मनीषिणस तवां यजन्ते बहुधा चैकधैव च
MBh 1.223.14
सृष्ट्वा लॊकांस तरीन इमान हव्यवाह; पराप्ते काले पचसि पुनः समिद्धः सर्वस्यास्य भुवनस्य परसूतिस; तवम एवाग्ने भवसि पुनः परतिष्ठा
MBh 1.223.15
तवम अन्नं पराणिनां भुक्तम अन्तर भूतॊ जगत्पते नित्यं परवृद्धः पचसि तवयि सर्वं परतिष्ठितम
MBh 1.223.16
[दरॊण] सूर्यॊ भूत्वा रश्मिभिर जातवेदॊ; भूमेर अम्भॊ भूमिजातान रसांश च विश्वान आदाय पुनर उत्सर्ग काले; सृष्ट्वा वृष्ट्या भावयसीह शुक्र
MBh 1.223.17
तवत्त एताः पुनः शुक्रवीरुधॊ हरितच छदाः जायन्ते पुष्करिण्यश च समुद्रश च महॊदधिः
MBh 1.223.18
इदं वै सद्म तिग्मांशॊ वरुणस्य परायणम शिवस तराता भवास्माकं मास्मान अद्य विनाशय
MBh 1.223.19
पिङ्गाक्षलॊहितग्रीव कृष्णवर्त्मन हुताशन परेण परैहि मुञ्चास्मान सागरस्य गृहान इव
MBh 1.223.20
[वै] एवम उक्तॊ जातवेदा दरॊणेनाक्लिष्ट कर्मणा दरॊणम आह परतीतात्मा मन्दपाल परतिज्ञया
MBh 1.223.21
ऋषिर दरॊणस तवम असि वै बरह्मैतद वयाहृतं तवया ईप्सितं ते करिष्यामि न च ते विद्यते भयम
MBh 1.223.22
मन्दपालेन यूयं हि मम पूर्वं निवेदिताः वर्जयेः पुत्रकान मह्यं दहन दावम इति सम ह
MBh 1.223.23
य च तद वचनं तस्य तवया यच चेह भाषितम उभयं मे गरीयस तद बरूहि किं करवाणि ते भृशं परीतॊ ऽसमि भद्रं ते बरह्मन सतॊत्रेण ते विभॊ
MBh 1.223.24
[दरॊण] इमे मार्जारकाः शुक्रनित्यम उद्वेजयन्ति नः एतान कुरुष्व दंष्ट्रासु हव्यवाहसबान्धवान
MBh 1.223.25
[वै] तथा तत कृतवान वह्निर अभ्यनुज्ञाय शार्ङ्गकान ददाह खाण्डवं चैव समिद्धॊ जनमेजय

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷