🪷 Mahābhārata · Ādi-Parva · Chapter 220

The Book of the Beginning · Parva 1 · 32 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 32 Shlokas

MBh 1.220.1
जनमेजय उवाच किमर्थं शार्ङ्गकानग्निर्न ददाह तथागते तस्मिन्वने दह्यमाने ब्रह्मन्नेतद्वदाशु मे
MBh 1.220.2
अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च कारणं कीर्तितं ब्रह्मञ्शार्ङ्गकानां न कीर्तितम्
MBh 1.220.3
तदेतदद्भुतं ब्रह्मञ्शार्ङ्गानामविनाशनम् कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः
MBh 1.220.4
वैशंपायन उवाच यदर्थं शार्ङ्गकानग्निर्न ददाह तथागते तत्ते सर्वं यथावृत्तं कथयिष्यामि भारत
MBh 1.220.5
धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः
MBh 1.220.6
स मार्गमास्थितो राजन्नृषीणामूर्ध्वरेतसाम् स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः
MBh 1.220.7
स गत्वा तपसः पारं देहमुत्सृज्य भारत जगाम पितृलोकाय न लेभे तत्र तत्फलम्
MBh 1.220.8
स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः
MBh 1.220.9
किमर्थमावृता लोका ममैते तपसार्जिताः किं मया न कृतं तत्र यस्येदं कर्मणः फलम्
MBh 1.220.10
तत्राहं तत्करिष्यामि यदर्थमिदमावृतम् फलमेतस्य तपसः कथयध्वं दिवौकसः
MBh 1.220.11
देवा ऊचुः ऋणिनो मानवा ब्रह्मञ्जायन्ते येन तच्छृणु क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः
MBh 1.220.12
तदपाक्रियते सर्वं यज्ञेन तपसा सुतैः तपस्वी यज्ञकृच्चासि न तु ते विद्यते प्रजा
MBh 1.220.13
त इमे प्रसवस्यार्थे तव लोकाः समावृताः प्रजायस्व ततो लोकानुपभोक्तासि शाश्वतान्
MBh 1.220.14
पुन्नाम्नो नरकात्पुत्रस्त्रातीति पितरं मुने तस्मादपत्यसंताने यतस्व द्विजसत्तम
MBh 1.220.15
वैशंपायन उवाच तच्छ्रुत्वा मन्दपालस्तु तेषां वाक्यं दिवौकसाम् क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत्
MBh 1.220.16
स चिन्तयन्नभ्यगच्छद्बहुलप्रसवान्खगान् शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान्
MBh 1.220.17
तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः तानपास्य स तत्रैव जगाम लपितां प्रति बालान्सुतानण्डगतान्मात्रा सह मुनिर्वने
MBh 1.220.18
तस्मिन्गते महाभागे लपितां प्रति भारत अपत्यस्नेहसंविग्ना जरिता बह्वचिन्तयत्
MBh 1.220.19
तेन त्यक्तानसंत्याज्यानृषीनण्डगतान्वने नाजहत्पुत्रकानार्ता जरिता खाण्डवे नृप बभार चैतान्संजातान्स्ववृत्त्या स्नेहविक्लवा
MBh 1.220.20
ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवानृषिः मन्दपालश्चरंस्तस्मिन्वने लपितया सह
MBh 1.220.21
तं संकल्पं विदित्वास्य ज्ञात्वा पुत्रांश्च बालकान् सोऽभितुष्टाव विप्रर्षिर्ब्राह्मणो जातवेदसम् पुत्रान्परिददद्भीतो लोकपालं महौजसम्
MBh 1.220.22
मन्दपाल उवाच त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट् त्वमन्तः सर्वभूतानां गूढश्चरसि पावक
MBh 1.220.23
त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन्
MBh 1.220.24
त्वया सृष्टमिदं विश्वं वदन्ति परमर्षयः त्वदृते हि जगत्कृत्स्नं सद्यो न स्याद्धुताशन
MBh 1.220.25
तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम् गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम्
MBh 1.220.26
त्वामग्ने जलदानाहुः खे विषक्तान्सविद्युतः दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः
MBh 1.220.27
जातवेदस्तवैवेयं विश्वसृष्टिर्महाद्युते तवैव कर्म विहितं भूतं सर्वं चराचरम्
MBh 1.220.28
त्वयापो विहिताः पूर्वं त्वयि सर्वमिदं जगत् त्वयि हव्यं च कव्यं च यथावत्संप्रतिष्ठितम्
MBh 1.220.29
अग्ने त्वमेव ज्वलनस्त्वं धाता त्वं बृहस्पतिः त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः
MBh 1.220.30
वैशंपायन उवाच एवं स्तुतस्ततस्तेन मन्दपालेन पावकः तुतोष तस्य नृपते मुनेरमिततेजसः उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते
MBh 1.220.31
तमब्रवीन्मन्दपालः प्राञ्जलिर्हव्यवाहनम् प्रदहन्खाण्डवं दावं मम पुत्रान्विसर्जय
MBh 1.220.32
तथेति तत्प्रतिश्रुत्य भगवान्हव्यवाहनः खाण्डवे तेन कालेन प्रजज्वाल दिधक्षया

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 32 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 1.220local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷