🪷 Mahābhārata · Ādi-Parva · Chapter 203
The Book of the Beginning · Parva 1 · 30 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 30 Shlokas
MBh 1.203.1
नारद उवाच
ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः
जग्मुस्तदा परामार्तिं दृष्ट्वा तत्कदनं महत्
MBh 1.203.2
तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः
पितामहस्य भवनं जगतः कृपया तदा
MBh 1.203.3
ततो ददृशुरासीनं सह देवैः पितामहम्
सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात्परिवारितम्
MBh 1.203.4
तत्र देवो महादेवस्तत्राग्निर्वायुना सह
चन्द्रादित्यौ च धर्मश्च परमेष्ठी तथा बुधः
MBh 1.203.5
वैखानसा वालखिल्या वानप्रस्था मरीचिपाः
अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः
ऋषयः सर्व एवैते पितामहमुपासते
MBh 1.203.6
ततोऽभिगम्य सहिताः सर्व एव महर्षयः
सुन्दोपसुन्दयोः कर्म सर्वमेव शशंसिरे
MBh 1.203.7
यथाकृतं यथा चैव कृतं येन क्रमेण च
न्यवेदयंस्ततः सर्वमखिलेन पितामहे
MBh 1.203.8
ततो देवगणाः सर्वे ते चैव परमर्षयः
तमेवार्थं पुरस्कृत्य पितामहमचोदयन्
MBh 1.203.9
ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा
मुहूर्तमिव संचिन्त्य कर्तव्यस्य विनिश्चयम्
MBh 1.203.10
तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत्
दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः
सृज्यतां प्रार्थनीयेह प्रमदेति महातपाः
MBh 1.203.11
पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च
निर्ममे योषितं दिव्यां चिन्तयित्वा प्रयत्नतः
MBh 1.203.12
त्रिषु लोकेषु यत्किंचिद्भूतं स्थावरजङ्गमम्
समानयद्दर्शनीयं तत्तद्यत्नात्ततस्ततः
MBh 1.203.13
कोटिशश्चापि रत्नानि तस्या गात्रे न्यवेशयत्
तां रत्नसंघातमयीमसृजद्देवरूपिणीम्
MBh 1.203.14
सा प्रयत्नेन महता निर्मिता विश्वकर्मणा
त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत्
MBh 1.203.15
न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसंपदा
न युक्तं यत्र वा दृष्टिर्न सज्जति निरीक्षताम्
MBh 1.203.16
सा विग्रहवतीव श्रीः कान्तरूपा वपुष्मती
जहार सर्वभूतानां चक्षूंषि च मनांसि च
MBh 1.203.17
तिलं तिलं समानीय रत्नानां यद्विनिर्मिता
तिलोत्तमेत्यतस्तस्या नाम चक्रे पितामहः
MBh 1.203.18
पितामह उवाच
गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे
प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम्
MBh 1.203.19
त्वत्कृते दर्शनादेव रूपसंपत्कृतेन वै
विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु
MBh 1.203.20
नारद उवाच
सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम्
चकार मण्डलं तत्र विबुधानां प्रदक्षिणम्
MBh 1.203.21
प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः
देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषयोऽभवन्
MBh 1.203.22
कुर्वन्त्या तु तया तत्र मण्डलं तत्प्रदक्षिणम्
इन्द्रः स्थाणुश्च भगवान्धैर्येण प्रत्यवस्थितौ
MBh 1.203.23
द्रष्टुकामस्य चात्यर्थं गतायाः पार्श्वतस्तदा
अन्यदञ्चितपक्ष्मान्तं दक्षिणं निःसृतं मुखम्
MBh 1.203.24
पृष्ठतः परिवर्तन्त्याः पश्चिमं निःसृतं मुखम्
गतायाश्चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम्
MBh 1.203.25
महेन्द्रस्यापि नेत्राणां पार्श्वतः पृष्ठतोऽग्रतः
रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत्
MBh 1.203.26
एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा
तथा सहस्रनेत्रश्च बभूव बलसूदनः
MBh 1.203.27
तथा देवनिकायानामृषीणां चैव सर्वशः
मुखान्यभिप्रवर्तन्ते येन याति तिलोत्तमा
MBh 1.203.28
तस्या गात्रे निपतिता तेषां दृष्टिर्महात्मनाम्
सर्वेषामेव भूयिष्ठमृते देवं पितामहम्
MBh 1.203.29
गच्छन्त्यास्तु तदा देवाः सर्वे च परमर्षयः
कृतमित्येव तत्कार्यं मेनिरे रूपसंपदा
MBh 1.203.30
तिलोत्तमायां तु तदा गतायां लोकभावनः
सर्वान्विसर्जयामास देवानृषिगणांश्च तान्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 202
- Next chapter · Ādi-Parva Ch 204 →
Sources and Connected Readings
Continue from these 30 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 1.203local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷