🪷 Mahābhārata · Ādi-Parva · Chapter 194
The Book of the Beginning · Parva 1 · 25 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 25 Shlokas
MBh 1.194.1
[कर्ण]
दुर्यॊधन तव परज्ञा न सम्यग इति मे मतिः
न हय उपायेन ते शक्याः पाण्डवाः कुरुनन्दन
MBh 1.194.2
पूर्वम एव हिते सूक्ष्मैर उपायैर यतितास तवया
निग्रहीतुं यदा वीर शकिता न तदा तवया
MBh 1.194.3
इहैव वर्तमानास ते समीपे तव पार्थिव
अजातपक्षाः शिशवः शकिता नैव बाधितुम
MBh 1.194.4
जातपक्षा विदेशस्था विवृद्धाः सर्वशॊ ऽदय ते
नॊपाय साध्याः कौन्तेया ममैषा मतिर अच्युत
MBh 1.194.5
न च ते वयसनैर यॊक्तुं शक्या दिष्ट कृता हि ते
शङ्किताश चेप्सवश चैव पितृपैतामहं पदम
MBh 1.194.6
परस्परेण भेदश च नाधातुं तेषु शक्यते
एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम
MBh 1.194.7
न चापि कृष्णा शक्येत तेभ्यॊ भेदयितुं परैः
परिद्यूनान वृतवती किम उताद्य मृजावतः
MBh 1.194.8
ईप्सितश च गुणः सत्रीणाम एकस्या बहु भर्तृता
तं च पराप्तवती कृष्णा न सा भेदयितुं सुखम
MBh 1.194.9
आर्य वृत्तश च पाञ्चाल्यॊ न स राजा धनप्रियः
न संत्यक्ष्यति कौन्तेयान राज्यदानैर अपि धरुवम
MBh 1.194.10
तथास्य पुत्रॊ गुणवान अनुरक्तश च पाण्डवान
तस्मान नॊपाय साध्यांस तान अहं मन्ये कथं चन
MBh 1.194.11
इदं तव अद्य कषमं कर्तुम अस्माकं पुरुषर्षभ
यावन न कृतमूलास ते पाण्डवेया विशां पते
तवत परहरणीयास ते रॊचतां तव विक्रमः
MBh 1.194.12
अस्मत पक्षॊ महान यावद यावत पाञ्चालकॊ लघुः
तावत परहरणं तेषां करियतां मा विचारय
MBh 1.194.13
वाहनानि परभूतानि मित्राणि बहुलानि च
याचन न तेषां गान्धारे तावद एवाशु विक्रम
MBh 1.194.14
यावच च राजा पाञ्चाल्यॊ नॊद्यमे कुरुते मनः
सह पुत्रैर महावीर्यैस तावद एवाशु विक्रम
MBh 1.194.15
यावन्न आयाति वार्ष्णेयः कर्षन यावद अवाहिनीम
राज्यार्थे पाण्डवेयानां तावद एवाशु विक्रम
MBh 1.194.16
वसूनि विविधान भॊगान राज्यम एव च केवलम
नात्याज्यम अस्ति कृष्णस्य पाण्डवार्थे महीपते
MBh 1.194.17
विक्रमेण मही पराप्ता भरतेन महात्मना
विक्रमेण च लॊकांस तरीञ जितवान पाकशासनः
MBh 1.194.18
विक्रमं च परशंसन्ति कषत्रियस्य विशां पते
सवकॊ हि धर्मः शूराणां विक्रमः पार्थिवर्षभ
MBh 1.194.19
ते बलेन वयं राजन महता चतुरङ्गिणा
परमथ्य दरुपदं शीघ्रम आनयामेह पाण्डवान
MBh 1.194.20
न हि साम्ना न दानेन न भेदेन च पाण्डवाः
शक्याः साधयितुं तस्माद विक्रमेणैव ताञ जहि
MBh 1.194.21
तान विक्रमेण जित्वेमाम अखिलां भुङ्क्ष्व मेदिनीम
नान्यम अत्र परपश्यामि कार्यॊपायं जनाधिप
MBh 1.194.22
[वै]
शरुत्वा तु राधेय वचॊ धृतराष्ट्रः परतापवान
अभिपूज्य ततः पश्चाद इदं वचनम अब्रवीत
MBh 1.194.23
उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने
तवयि विक्रमसंपन्नम इदं वचनम ईदृशम
MBh 1.194.24
भूय एव तु भीष्मश च दरॊणॊ विदुर एव च
युवां च कुरुतां बुद्धिं भवेद या नः सुखॊदया
MBh 1.194.25
तत आनाय्य तान सर्वान मन्त्रिणः सुमहायशाः
धृतराष्ट्रॊ महाराज मन्त्रयाम आस वै तदा
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 193
- Next chapter · Ādi-Parva Ch 195 →
🪷 जय व्यास भगवान् 🪷