🪷 Mahābhārata · Ādi-Parva · Chapter 190
The Book of the Beginning · Parva 1 · 18 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 18 Shlokas
MBh 1.190.1
द्रुपद उवाच
अश्रुत्वैवं वचनं ते महर्षे; मया पूर्वं यतितं कार्यमेतत्
न वै शक्यं विहितस्यापयातुं; तदेवेदमुपपन्नं विधानम्
MBh 1.190.2
दिष्टस्य ग्रन्थिरनिवर्तनीयः; स्वकर्मणा विहितं नेह किंचित्
कृतं निमित्तं हि वरैकहेतो;स्तदेवेदमुपपन्नं बहूनाम्
MBh 1.190.3
यथैव कृष्णोक्तवती पुरस्ता;न्नैकान्पतीन्मे भगवान्ददातु
स चाप्येवं वरमित्यब्रवीत्तां; देवो हि वेद परमं यदत्र
MBh 1.190.4
यदि वायं विहितः शंकरेण; धर्मोऽधर्मो वा नात्र ममापराधः
गृह्णन्त्विमे विधिवत्पाणिमस्या; यथोपजोषं विहितैषां हि कृष्णा
MBh 1.190.5
वैशंपायन उवाच
ततोऽब्रवीद्भगवान्धर्मराज;मद्य पुण्याहमुत पाण्डवेय
अद्य पौष्यं योगमुपैति चन्द्रमाः; पाणिं कृष्णायास्त्वं गृहाणाद्य पूर्वम्
MBh 1.190.6
ततो राजा यज्ञसेनः सपुत्रो; जन्यार्थ युक्तं बहु तत्तदग्र्यम्
समानयामास सुतां च कृष्णा;माप्लाव्य रत्नैर्बहुभिर्विभूष्य
MBh 1.190.7
ततः सर्वे सुहृदस्तत्र तस्य; समाजग्मुः सचिवा मन्त्रिणश्च
द्रष्टुं विवाहं परमप्रतीता; द्विजाश्च पौराश्च यथाप्रधानाः
MBh 1.190.8
तत्तस्य वेश्मार्थिजनोपशोभितं; विकीर्णपद्मोत्पलभूषिताजिरम्
महार्हरत्नौघविचित्रमाबभौ; दिवं यथा निर्मलतारकाचितम्
MBh 1.190.9
ततस्तु ते कौरवराजपुत्रा; विभूषिताः कुण्डलिनो युवानः
महार्हवस्त्रा वरचन्दनोक्षिताः; कृताभिषेकाः कृतमङ्गलक्रियाः
MBh 1.190.10
पुरोहितेनाग्निसमानवर्चसा; सहैव धौम्येन यथाविधि प्रभो
क्रमेण सर्वे विविशुश्च तत्सदो; महर्षभा गोष्ठमिवाभिनन्दिनः
MBh 1.190.11
ततः समाधाय स वेदपारगो; जुहाव मन्त्रैर्ज्वलितं हुताशनम्
युधिष्ठिरं चाप्युपनीय मन्त्रवि;न्नियोजयामास सहैव कृष्णया
MBh 1.190.12
प्रदक्षिणं तौ प्रगृहीतपाणी; समानयामास स वेदपारगः
ततोऽभ्यनुज्ञाय तमाजिशोभिनं; पुरोहितो राजगृहाद्विनिर्ययौ
MBh 1.190.13
क्रमेण चानेन नराधिपात्मजा; वरस्त्रियास्ते जगृहुस्तदा करम्
अहन्यहन्युत्तमरूपधारिणो; महारथाः कौरववंशवर्धनाः
MBh 1.190.14
इदं च तत्राद्भुतरूपमुत्तमं; जगाद विप्रर्षिरतीतमानुषम्
महानुभावा किल सा सुमध्यमा; बभूव कन्यैव गते गतेऽहनि
MBh 1.190.15
कृते विवाहे द्रुपदो धनं ददौ; महारथेभ्यो बहुरूपमुत्तमम्
शतं रथानां वरहेमभूषिणां; चतुर्युजां हेमखलीनमालिनाम्
MBh 1.190.16
शतं गजानामभिपद्मिनां तथा; शतं गिरीणामिव हेमशृङ्गिणाम्
तथैव दासीशतमग्र्ययौवनं; महार्हवेषाभरणाम्बरस्रजम्
MBh 1.190.17
पृथक्पृथक्चैव दशायुतान्वितं; धनं ददौ सौमकिरग्निसाक्षिकम्
तथैव वस्त्राणि च भूषणानि; प्रभावयुक्तानि महाधनानि
MBh 1.190.18
कृते विवाहे च ततः स्म पाण्डवाः; प्रभूतरत्नामुपलभ्य तां श्रियम्
विजह्रुरिन्द्रप्रतिमा महाबलाः; पुरे तु पाञ्चालनृपस्य तस्य ह
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 189
- Next chapter · Ādi-Parva Ch 191 →
Sources and Connected Readings
Continue from these 18 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 1.190local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷