🪷 Mahābhārata · Ādi-Parva · Chapter 158

The Book of the Beginning · Parva 1 · 55 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 55 Shlokas

MBh 1.158.1
वैशंपायन उवाच ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः समैरुदङ्मुखैर्मार्गैर्यथोद्दिष्टं परंतपाः
MBh 1.158.2
ते गच्छन्तस्त्वहोरात्रं तीर्थं सोमश्रवायणम् आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः
MBh 1.158.3
उल्मुकं तु समुद्यम्य तेषामग्रे धनंजयः प्रकाशार्थं ययौ तत्र रक्षार्थं च महायशाः
MBh 1.158.4
तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन्स्त्रियः ईर्ष्युर्गन्धर्वराजः स्म जलक्रीडामुपागतः
MBh 1.158.5
शब्दं तेषां स शुश्राव नदीं समुपसर्पताम् तेन शब्देन चाविष्टश्चुक्रोध बलवद्बली
MBh 1.158.6
स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परंतपान् विस्फारयन्धनुर्घोरमिदं वचनमब्रवीत्
MBh 1.158.7
संध्या संरज्यते घोरा पूर्वरात्रागमेषु या अशीतिभिस्त्रुटैर्हीनं तं मुहूर्तं प्रचक्षते
MBh 1.158.8
विहितं कामचाराणां यक्षगन्धर्वरक्षसाम् शेषमन्यन्मनुष्याणां कामचारमिह स्मृतम्
MBh 1.158.9
लोभात्प्रचारं चरतस्तासु वेलासु वै नरान् उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान्
MBh 1.158.10
ततो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः गर्हयन्ति नरान्सर्वान्बलस्थान्नृपतीनपि
MBh 1.158.11
आरात्तिष्ठत मा मह्यं समीपमुपसर्पत कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम्
MBh 1.158.12
अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम् अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियः सखा
MBh 1.158.13
अङ्गारपर्णमिति च ख्यातं वनमिदं मम अनु गङ्गां च वाकां च चित्रं यत्र वसाम्यहम्
MBh 1.158.14
न कुणपाः शृङ्गिणो वा न देवा न च मानुषाः इदं समुपसर्पन्ति तत्किं समुपसर्पथ
MBh 1.158.15
अर्जुन उवाच समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते रात्रावहनि संधौ च कस्य कॢप्तः परिग्रहः
MBh 1.158.16
वयं च शक्तिसंपन्ना अकाले त्वामधृष्णुमः अशक्ता हि क्षणे क्रूरे युष्मानर्चन्ति मानवाः
MBh 1.158.17
पुरा हिमवतश्चैषा हेमशृङ्गाद्विनिःसृता गङ्गा गत्वा समुद्राम्भः सप्तधा प्रतिपद्यते
MBh 1.158.18
इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम्
MBh 1.158.19
तथा पितॄन्वैतरणी दुस्तरा पापकर्मभिः गङ्गा भवति गन्धर्व यथा द्वैपायनोऽब्रवीत्
MBh 1.158.20
असंबाधा देवनदी स्वर्गसंपादनी शुभा कथमिच्छसि तां रोद्धुं नैष धर्मः सनातनः
MBh 1.158.21
अनिवार्यमसंबाधं तव वाचा कथं वयम् न स्पृशेम यथाकामं पुण्यं भागीरथीजलम्
MBh 1.158.22
वैशंपायन उवाच अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनम्य कार्मुकम् मुमोच सायकान्दीप्तानहीनाशीविषानिव
MBh 1.158.23
उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तमम् व्यपोवाह शरांस्तस्य सर्वानेव धनंजयः
MBh 1.158.24
अर्जुन उवाच बिभीषिकैषा गन्धर्व नास्त्रज्ञेषु प्रयुज्यते अस्त्रज्ञेषु प्रयुक्तैषा फेनवत्प्रविलीयते
MBh 1.158.25
मानुषानति गन्धर्वान्सर्वान्गन्धर्व लक्षये तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया
MBh 1.158.26
पुरास्त्रमिदमाग्नेयं प्रादात्किल बृहस्पतिः भरद्वाजस्य गन्धर्व गुरुपुत्रः शतक्रतोः
MBh 1.158.27
भरद्वाजादग्निवेश्यो अग्निवेश्याद्गुरुर्मम स त्विदं मह्यमददाद्द्रोणो ब्राह्मणसत्तमः
MBh 1.158.28
वैशंपायन उवाच इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत्
MBh 1.158.29
विरथं विप्लुतं तं तु स गन्धर्वं महाबलम् अस्त्रतेजःप्रमूढं च प्रपतन्तमवाङ्मुखम्
MBh 1.158.30
शिरोरुहेषु जग्राह माल्यवत्सु धनंजयः भ्रातॄन्प्रति चकर्षाथ सोऽस्त्रपातादचेतसम्
MBh 1.158.31
युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती
MBh 1.158.32
गन्धर्व्युवाच त्राहि त्वं मां महाराज पतिं चेमं विमुञ्च मे गन्धर्वीं शरणं प्राप्तां नाम्ना कुम्बीनसीं प्रभो
MBh 1.158.33
युधिष्ठिर उवाच युद्धे जितं यशोहीनं स्त्रीनाथमपराक्रमम् को नु हन्याद्रिपुं त्वादृङ्मुञ्चेमं रिपुसूदन
MBh 1.158.34
अर्जुन उवाच अङ्गेमं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः
MBh 1.158.35
गन्धर्व उवाच जितोऽहं पूर्वकं नाम मुञ्चाम्यङ्गारपर्णताम् न च श्लाघे बलेनाद्य न नाम्ना जनसंसदि
MBh 1.158.36
साध्विमं लब्धवाँल्लाभं योऽहं दिव्यास्त्रधारिणम् गान्धर्व्या मायया योद्धुमिच्छामि वयसा वरम्
MBh 1.158.37
अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवम्
MBh 1.158.38
संभृता चैव विद्येयं तपसेह पुरा मया निवेदयिष्ये तामद्य प्राणदाया महात्मने
MBh 1.158.39
संस्तम्भितं हि तरसा जितं शरणमागतम् योऽरिं संयोजयेत्प्राणैः कल्याणं किं न सोऽर्हति
MBh 1.158.40
चक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः ददौ स विश्वावसवे मह्यं विश्वावसुर्ददौ
MBh 1.158.41
सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति आगमोऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे
MBh 1.158.42
यच्चक्षुषा द्रष्टुमिच्छेत्त्रिषु लोकेषु किंचन तत्पश्येद्यादृशं चेच्छेत्तादृषं द्रष्टुमर्हति
MBh 1.158.43
समानपद्ये षण्मासान्स्थितो विद्यां लभेदिमाम् अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते
MBh 1.158.44
विद्यया ह्यनया राजन्वयं नृभ्यो विशेषिताः अविशिष्टाश्च देवानामनुभावप्रवर्तिताः
MBh 1.158.45
गन्धर्वजानामश्वानामहं पुरुषसत्तम भ्रातृभ्यस्तव पञ्चभ्यः पृथग्दाता शतं शतम्
MBh 1.158.46
देवगन्धर्ववाहास्ते दिव्यगन्धा मनोगमाः क्षीणाः क्षीणा भवन्त्येते न हीयन्ते च रंहसः
MBh 1.158.47
पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणे दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि
MBh 1.158.48
ततो भागीकृतो देवैर्वज्रभाग उपास्यते लोके यत्साधनं किंचित्सा वै वज्रतनुः स्मृता
MBh 1.158.49
वज्रपाणिर्ब्राह्मणः स्यात्क्षत्रं वज्ररथं स्मृतम् वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः
MBh 1.158.50
वज्रं क्षत्रस्य वाजिनो अवध्या वाजिनः स्मृताः रथाङ्गं वडवा सूते सूताश्चाश्वेषु ये मताः
MBh 1.158.51
कामवर्णाः कामजवाः कामतः समुपस्थिताः इमे गन्धर्वजाः कामं पूरयिष्यन्ति ते हयाः
MBh 1.158.52
अर्जुन उवाच यदि प्रीतेन वा दत्तं संशये जीवितस्य वा विद्या वित्तं श्रुतं वापि न तद्गन्धर्व कामये
MBh 1.158.53
गन्धर्व उवाच संयोगो वै प्रीतिकरः संसत्सु प्रतिदृश्यते जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते
MBh 1.158.54
त्वत्तो ह्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम् तथैव सख्यं बीभत्सो चिराय भरतर्षभ
MBh 1.158.55
अर्जुन उवाच त्वत्तोऽस्त्रेण वृणोम्यश्वान्संयोगः शाश्वतोऽस्तु नौ सखे तद्ब्रूहि गन्धर्व युष्मभ्यो यद्भयं त्यजेत्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 55 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 1.158local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷