🪷 Mahābhārata · Ādi-Parva · Chapter 149
The Book of the Beginning · Parva 1 · 20 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 20 Shlokas
MBh 1.149.1
कुन्त्युवाच
न विषादस्त्वया कार्यो भयादस्मात्कथंचन
उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः
MBh 1.149.2
एकस्तव सुतो बालः कन्या चैका तपस्विनी
न ते तयोस्तथा पत्न्या गमनं तत्र रोचये
MBh 1.149.3
मम पञ्च सुता ब्रह्मंस्तेषामेको गमिष्यति
त्वदर्थं बलिमादाय तस्य पापस्य रक्षसः
MBh 1.149.4
ब्राह्मण उवाच
नाहमेतत्करिष्यामि जीवितार्थी कथंचन
ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणैर्वियोजनम्
MBh 1.149.5
न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते
यद्ब्राह्मणार्थे विसृजेदात्मानमपि चात्मजम्
MBh 1.149.6
आत्मनस्तु मया श्रेयो बोद्धव्यमिति रोचये
ब्रह्मवध्यात्मवध्या वा श्रेय आत्मवधो मम
MBh 1.149.7
ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते
अबुद्धिपूर्वं कृत्वापि श्रेय आत्मवधो मम
MBh 1.149.8
न त्वहं वधमाकाङ्क्षे स्वयमेवात्मनः शुभे
परैः कृते वधे पापं न किंचिन्मयि विद्यते
MBh 1.149.9
अभिसंधिकृते तस्मिन्ब्राह्मणस्य वधे मया
निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रमेव च
MBh 1.149.10
आगतस्य गृहे त्यागस्तथैव शरणार्थिनः
याचमानस्य च वधो नृशंसं परमं मतम्
MBh 1.149.11
कुर्यान्न निन्दितं कर्म न नृशंसं कदाचन
इति पूर्वे महात्मान आपद्धर्मविदो विदुः
MBh 1.149.12
श्रेयांस्तु सहदारस्य विनाशोऽद्य मम स्वयम्
ब्राह्मणस्य वधं नाहमनुमंस्ये कथंचन
MBh 1.149.13
कुन्त्युवाच
ममाप्येषा मतिर्ब्रह्मन्विप्रा रक्ष्या इति स्थिरा
न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत्
MBh 1.149.14
न चासौ राक्षसः शक्तो मम पुत्रविनाशने
वीर्यवान्मन्त्रसिद्धश्च तेजस्वी च सुतो मम
MBh 1.149.15
राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनम्
मोक्षयिष्यति चात्मानमिति मे निश्चिता मतिः
MBh 1.149.16
समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः
बलवन्तो महाकाया निहताश्चाप्यनेकशः
MBh 1.149.17
न त्विदं केषुचिद्ब्रह्मन्व्याहर्तव्यं कथंचन
विद्यार्थिनो हि मे पुत्रान्विप्रकुर्युः कुतूहलात्
MBh 1.149.18
गुरुणा चाननुज्ञातो ग्राहयेद्यं सुतो मम
न स कुर्यात्तया कार्यं विद्ययेति सतां मतम्
MBh 1.149.19
वैशंपायन उवाच
एवमुक्तस्तु पृथया स विप्रो भार्यया सह
हृष्टः संपूजयामास तद्वाक्यममृतोपमम्
MBh 1.149.20
ततः कुन्ती च विप्रश्च सहितावनिलात्मजम्
तमब्रूतां कुरुष्वेति स तथेत्यब्रवीच्च तौ
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 148
- Next chapter · Ādi-Parva Ch 150 →
Sources and Connected Readings
Continue from these 20 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 1.149local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷