🪷 Mahābhārata · Ādi-Parva · Chapter 145

The Book of the Beginning · Parva 1 · 40 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 40 Shlokas

MBh 1.145.1
जनमेजय उवाच एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः अतः परं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः
MBh 1.145.2
वैशंपायन उवाच एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने
MBh 1.145.3
रमणीयानि पश्यन्तो वनानि विविधानि च पार्थिवानपि चोद्देशान्सरितश्च सरांसि च
MBh 1.145.4
चेरुर्भैक्षं तदा ते तु सर्व एव विशां पते बभूवुर्नागराणां च स्वैर्गुणैः प्रियदर्शनाः
MBh 1.145.5
निवेदयन्ति स्म च ते भैक्षं कुन्त्याः सदा निशि तया विभक्तान्भागांस्ते भुञ्जते स्म पृथक्पृथक्
MBh 1.145.6
अर्धं ते भुञ्जते वीराः सह मात्रा परंतपाः अर्धं भैक्षस्य सर्वस्य भीमो भुङ्क्ते महाबलः
MBh 1.145.7
तथा तु तेषां वसतां तत्र राजन्महात्मनाम् अतिचक्राम सुमहान्कालोऽथ भरतर्षभ
MBh 1.145.8
ततः कदाचिद्भैक्षाय गतास्ते भरतर्षभाः संगत्या भीमसेनस्तु तत्रास्ते पृथया सह
MBh 1.145.9
अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत
MBh 1.145.10
रोरूयमाणांस्तान्सर्वान्परिदेवयतश्च सा कारुण्यात्साधुभावाच्च देवी राजन्न चक्षमे
MBh 1.145.11
मथ्यमानेव दुःखेन हृदयेन पृथा ततः उवाच भीमं कल्याणी कृपान्वितमिदं वचः
MBh 1.145.12
वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः
MBh 1.145.13
सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम् प्रियं कुर्यामिति गृहे यत्कुर्युरुषिताः सुखम्
MBh 1.145.14
एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः
MBh 1.145.15
तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम् तत्रास्य यदि साहाय्यं कुर्याम सुकृतं भवेत्
MBh 1.145.16
भीम उवाच ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम् विदिते व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम्
MBh 1.145.17
वैशंपायन उवाच तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः स्वनम् आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते
MBh 1.145.18
अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः विवेश कुन्ती त्वरिता बद्धवत्सेव सौरभी
MBh 1.145.19
ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च दुहित्रा चैव सहितं ददर्श विकृताननम्
MBh 1.145.20
ब्राह्मण उवाच धिगिदं जीवितं लोकेऽनलसारमनर्थकम् दुःखमूलं पराधीनं भृशमप्रियभागि च
MBh 1.145.21
जीविते परमं दुःखं जीविते परमो ज्वरः जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः
MBh 1.145.22
एकात्मापि हि धर्मार्थौ कामं च न निषेवते एतैश्च विप्रयोगोऽपि दुःखं परमकं मतम्
MBh 1.145.23
आहुः केचित्परं मोक्षं स च नास्ति कथंचन अर्थप्राप्तौ च नरकः कृत्स्न एवोपपद्यते
MBh 1.145.24
अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम् जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम्
MBh 1.145.25
न हि योगं प्रपश्यामि येन मुच्येयमापदः पुत्रदारेण वा सार्धं प्राद्रवेयामनामयम्
MBh 1.145.26
यतितं वै मया पूर्वं यथा त्वं वेत्थ ब्राह्मणि यतः क्षेमं ततो गन्तुं त्वया तु मम न श्रुतम्
MBh 1.145.27
इह जाता विवृद्धास्मि पिता चेह ममेति च उक्तवत्यसि दुर्मेधे याच्यमाना मयासकृत्
MBh 1.145.28
स्वर्गतो हि पिता वृद्धस्तथा माता चिरं तव बान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः
MBh 1.145.29
सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम बन्धुप्रणाशः संप्राप्तो भृशं दुःखकरो मम
MBh 1.145.30
अथ वा मद्विनाशोऽयं न हि शक्ष्यामि कंचन परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत्
MBh 1.145.31
सहधर्मचरीं दान्तां नित्यं मातृसमां मम सखायं विहितां देवैर्नित्यं परमिकां गतिम्
MBh 1.145.32
मात्रा पित्रा च विहितां सदा गार्हस्थ्यभागिनीम् वरयित्वा यथान्यायं मन्त्रवत्परिणीय च
MBh 1.145.33
कुलीनां शीलसंपन्नामपत्यजननीं मम त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम् परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम्
MBh 1.145.34
कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम् बालामप्राप्तवयसमजातव्यञ्जनाकृतिम्
MBh 1.145.35
भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना यस्यां दौहित्रजाँल्लोकानाशंसे पितृभिः सह स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे
MBh 1.145.36
मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः कन्यायां नैव तु पुनर्मम तुल्यावुभौ मतौ
MBh 1.145.37
यस्मिँल्लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम् अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे
MBh 1.145.38
आत्मानमपि चोत्सृज्य तप्स्ये प्रेतवशं गतः त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम्
MBh 1.145.39
एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना
MBh 1.145.40
स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः सर्वैः सह मृतं श्रेयो न तु मे जीवितं क्षमम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 40 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 1.145local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷