🪷 Mahābhārata · Ādi-Parva · Chapter 14

The Book of the Beginning · Parva 1 · 23 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 23 Shlokas

MBh 1.14.1
शौनक उवाच सौते कथय तामेतां विस्तरेण कथां पुनः आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः
MBh 1.14.2
मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया प्रीयामहे भृशं तात पितेवेदं प्रभाषसे
MBh 1.14.3
अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद
MBh 1.14.4
सूत उवाच आयुष्यमिदमाख्यानमास्तीकं कथयामि ते यथा श्रुतं कथयतः सकाशाद्वै पितुर्मया
MBh 1.14.5
पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघे
MBh 1.14.6
ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः
MBh 1.14.7
वरातिसर्गं श्रुत्वैव कश्यपादुत्तमं च ते हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ
MBh 1.14.8
वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यतेजसः द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ
MBh 1.14.9
तस्यै भर्ता वरं प्रादादध्यर्धं पुत्रमीप्सितम् एवमस्त्विति तं चाह कश्यपं विनता तदा
MBh 1.14.10
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम्
MBh 1.14.11
धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत्
MBh 1.14.12
कालेन महता कद्रूरण्डानां दशतीर्दश जनयामास विप्रेन्द्र द्वे अण्डे विनता तदा
MBh 1.14.13
तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः सोपस्वेदेषु भाण्डेषु पञ्च वर्षशतानि च
MBh 1.14.14
ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत
MBh 1.14.15
ततः पुत्रार्थिणी देवी व्रीडिता सा तपस्विनी अण्डं बिभेद विनता तत्र पुत्रमदृक्षत
MBh 1.14.16
पूर्वार्धकायसंपन्नमितरेणाप्रकाशता स पुत्रो रोषसंपन्नः शशापैनामिति श्रुतिः
MBh 1.14.17
योऽहमेवं कृतो मातस्त्वया लोभपरीतया शरीरेणासमग्रोऽद्य तस्माद्दासी भविष्यसि
MBh 1.14.18
पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह एष च त्वां सुतो मातर्दास्यत्वान्मोक्षयिष्यति
MBh 1.14.19
यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात् न करिष्यस्यदेहं वा व्यङ्गं वापि तपस्विनम्
MBh 1.14.20
प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया विशिष्टबलमीप्सन्त्या पञ्चवर्षशतात्परः
MBh 1.14.21
एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा
MBh 1.14.22
गरुडोऽपि यथाकालं जज्ञे पन्नगसूदनः स जातमात्रो विनतां परित्यज्य खमाविशत्
MBh 1.14.23
आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत् विधात्रा भृगुशार्दूल क्षुधितस्य बुभुक्षतः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 23 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 1.14local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷