🪷 Mahābhārata · Ādi-Parva · Chapter 138

The Book of the Beginning · Parva 1 · 31 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 31 Shlokas

MBh 1.138.1
वैशंपायन उवाच तेन विक्रमता तूर्णमूरुवेगसमीरितम् प्रववावनिलो राजञ्शुचिशुक्रागमे यथा
MBh 1.138.2
स मृद्नन्पुष्पितांश्चैव फलितांश्च वनस्पतीन् आरुजन्दारुगुल्मांश्च पथस्तस्य समीपजान्
MBh 1.138.3
तथा वृक्षान्भञ्जमानो जगामामितविक्रमः तस्य वेगेन पाण्डूनां मूर्च्छेव समजायत
MBh 1.138.4
असकृच्चापि संतीर्य दूरपारं भुजप्लवैः पथि प्रच्छन्नमासेदुर्धार्तराष्ट्रभयात्तदा
MBh 1.138.5
कृच्छ्रेण मातरं त्वेकां सुकुमारीं यशस्विनीम् अवहत्तत्र पृष्ठेन रोधःसु विषमेषु च
MBh 1.138.6
आगमंस्ते वनोद्देशमल्पमूलफलोदकम् क्रूरपक्षिमृगं घोरं सायाह्ने भरतर्षभाः
MBh 1.138.7
घोरा समभवत्संध्या दारुणा मृगपक्षिणः अप्रकाशा दिशः सर्वा वातैरासन्ननार्तवैः
MBh 1.138.8
ते श्रमेण च कौरव्यास्तृष्णया च प्रपीडिताः नाशक्नुवंस्तदा गन्तुं निद्रया च प्रवृद्धया
MBh 1.138.9
ततो भीमो वनं घोरं प्रविश्य विजनं महत् न्यग्रोधं विपुलच्छायं रमणीयमुपाद्रवत्
MBh 1.138.10
तत्र निक्षिप्य तान्सर्वानुवाच भरतर्षभः पानीयं मृगयामीह विश्रमध्वमिति प्रभो
MBh 1.138.11
एते रुवन्ति मधुरं सारसा जलचारिणः ध्रुवमत्र जलस्थायो महानिति मतिर्मम
MBh 1.138.12
अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत जगाम तत्र यत्र स्म रुवन्ति जलचारिणः
MBh 1.138.13
स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ उत्तरीयेण पानीयमाजहार तदा नृप
MBh 1.138.14
गव्यूतिमात्रादागत्य त्वरितो मातरं प्रति स सुप्तां मातरं दृष्ट्वा भ्रातॄंश्च वसुधातले भृशं दुःखपरीतात्मा विललाप वृकोदरः
MBh 1.138.15
शयनेषु परार्ध्येषु ये पुरा वारणावते नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले
MBh 1.138.16
स्वसारं वसुदेवस्य शत्रुसंघावमर्दिनः कुन्तिभोजसुतां कुन्तीं सर्वलक्षणपूजिताम्
MBh 1.138.17
स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर्महात्मनः प्रासादशयनां नित्यं पुण्डरीकान्तरप्रभाम्
MBh 1.138.18
सुकुमारतरां स्त्रीणां महार्हशयनोचिताम् शयानां पश्यताद्येह पृथिव्यामतथोचिताम्
MBh 1.138.19
धर्मादिन्द्राच्च वायोश्च सुषुवे या सुतानिमान् सेयं भूमौ परिश्रान्ता शेते ह्यद्यातथोचिता
MBh 1.138.20
किं नु दुःखतरं शक्यं मया द्रष्टुमतः परम् योऽहमद्य नरव्याघ्रान्सुप्तान्पश्यामि भूतले
MBh 1.138.21
त्रिषु लोकेषु यद्राज्यं धर्मविद्योऽर्हते नृपः सोऽयं भूमौ परिश्रान्तः शेते प्राकृतवत्कथम्
MBh 1.138.22
अयं नीलाम्बुदश्यामो नरेष्वप्रतिमो भुवि शेते प्राकृतवद्भूमावतो दुःखतरं नु किम्
MBh 1.138.23
अश्विनाविव देवानां याविमौ रूपसंपदा तौ प्राकृतवदद्येमौ प्रसुप्तौ धरणीतले
MBh 1.138.24
ज्ञातयो यस्य नैव स्युर्विषमाः कुलपांसनाः स जीवेत्सुसुखं लोके ग्रामे द्रुम इवैकजः
MBh 1.138.25
एको वृक्षो हि यो ग्रामे भवेत्पर्णफलान्वितः चैत्यो भवति निर्ज्ञातिरर्चनीयः सुपूजितः
MBh 1.138.26
येषां च बहवः शूरा ज्ञातयो धर्मसंश्रिताः ते जीवन्ति सुखं लोके भवन्ति च निरामयाः
MBh 1.138.27
बलवन्तः समृद्धार्था मित्रबान्धवनन्दनाः जीवन्त्यन्योन्यमाश्रित्य द्रुमाः काननजा इव
MBh 1.138.28
वयं तु धृतराष्ट्रेण सपुत्रेण दुरात्मना विवासिता न दग्धाश्च कथंचित्तस्य शासनात्
MBh 1.138.29
तस्मान्मुक्ता वयं दाहादिमं वृक्षमुपाश्रिताः कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम्
MBh 1.138.30
नातिदूरे च नगरं वनादस्माद्धि लक्षये जागर्तव्ये स्वपन्तीमे हन्त जागर्म्यहं स्वयम्
MBh 1.138.31
पास्यन्तीमे जलं पश्चात्प्रतिबुद्धा जितक्लमाः इति भीमो व्यवस्यैव जजागार स्वयं तदा

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 31 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 1.138local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷