🪷 Mahābhārata · Ādi-Parva · Chapter 131

The Book of the Beginning · Parva 1 · 18 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 18 Shlokas

MBh 1.131.1
वैशंपायन उवाच ततो दुर्योधनो राजा सर्वास्ताः प्रकृतीः शनैः अर्थमानप्रदानाभ्यां संजहार सहानुजः
MBh 1.131.2
धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः कथयां चक्रिरे रम्यं नगरं वारणावतम्
MBh 1.131.3
अयं समाजः सुमहान्रमणीयतमो भुवि उपस्थितः पशुपतेर्नगरे वारणावते
MBh 1.131.4
सर्वरत्नसमाकीर्णे पुंसां देशे मनोरमे इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः
MBh 1.131.5
कथ्यमाने तथा रम्ये नगरे वारणावते गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप
MBh 1.131.6
यदा त्वमन्यत नृपो जातकौतूहला इति उवाचैनानथ तदा पाण्डवानम्बिकासुतः
MBh 1.131.7
ममेमे पुरुषा नित्यं कथयन्ति पुनः पुनः रमणीयतरं लोके नगरं वारणावतम्
MBh 1.131.8
ते तात यदि मन्यध्वमुत्सवं वारणावते सगणाः सानुयात्राश्च विहरध्वं यथामराः
MBh 1.131.9
ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः
MBh 1.131.10
कंचित्कालं विहृत्यैवमनुभूय परां मुदम् इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ
MBh 1.131.11
धृतराष्ट्रस्य तं काममनुबुद्ध्वा युधिष्ठिरः आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम्
MBh 1.131.12
ततो भीष्मं महाप्राज्ञं विदुरं च महामतिम् द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम्
MBh 1.131.13
कृपमाचार्यपुत्रं च गान्धारीं च यशस्विनीम् युधिष्ठिरः शनैर्दीनमुवाचेदं वचस्तदा
MBh 1.131.14
रमणीये जनाकीर्णे नगरे वारणावते सगणास्तात वत्स्यामो धृतराष्ट्रस्य शासनात्
MBh 1.131.15
प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत आशीर्भिर्वर्धितानस्मान्न पापं प्रसहिष्यति
MBh 1.131.16
एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः प्रसन्नवदना भूत्वा तेऽभ्यवर्तन्त पाण्डवान्
MBh 1.131.17
स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः मा च वोऽस्त्वशुभं किंचित्सर्वतः पाण्डुनन्दनाः
MBh 1.131.18
ततः कृतस्वस्त्ययना राज्यलाभाय पाण्डवाः कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 18 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 1.131local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷