🪷 Mahābhārata · Ādi-Parva · Chapter 114
The Book of the Beginning · Parva 1 · 66 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 66 Shlokas
MBh 1.114.1
वैशंपायन उवाच
संवत्सराहिते गर्भे गान्धार्या जनमेजय
आह्वयामास वै कुन्ती गर्भार्थं धर्ममच्युतम्
MBh 1.114.2
सा बलिं त्वरिता देवी धर्मायोपजहार ह
जजाप जप्यं विधिवद्दत्तं दुर्वाससा पुरा
MBh 1.114.3
संगम्य सा तु धर्मेण योगमूर्तिधरेण वै
लेभे पुत्रं वरारोहा सर्वप्राणभृतां वरम्
MBh 1.114.4
ऐन्द्रे चन्द्रसमायुक्ते मुहूर्तेऽभिजितेऽष्टमे
दिवा मध्यगते सूर्ये तिथौ पुण्येऽभिपूजिते
MBh 1.114.5
समृद्धयशसं कुन्ती सुषाव समये सुतम्
जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी
MBh 1.114.6
एष धर्मभृतां श्रेष्ठो भविष्यति न संशयः
युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः
MBh 1.114.7
भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः
यशसा तेजसा चैव वृत्तेन च समन्वितः
MBh 1.114.8
धार्मिकं तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत्
प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु
MBh 1.114.9
ततस्तथोक्ता पत्या तु वायुमेवाजुहाव सा
तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः
MBh 1.114.10
तमप्यतिबलं जातं वागभ्यवददच्युतम्
सर्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत
MBh 1.114.11
इदमत्यद्भुतं चासीज्जातमात्रे वृकोदरे
यदङ्कात्पतितो मातुः शिलां गात्रैरचूर्णयत्
MBh 1.114.12
कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल
नान्वबुध्यत संसुप्तमुत्सङ्गे स्वे वृकोदरम्
MBh 1.114.13
ततः स वज्रसंघातः कुमारोऽभ्यपतद्गिरौ
पतता तेन शतधा शिला गात्रैर्विचूर्णिता
तां शिलां चूर्णितां दृष्ट्वा पाण्डुर्विस्मयमागमत्
MBh 1.114.14
यस्मिन्नहनि भीमस्तु जज्ञे भरतसत्तम
दुर्योधनोऽपि तत्रैव प्रजज्ञे वसुधाधिप
MBh 1.114.15
जाते वृकोदरे पाण्डुरिदं भूयोऽन्वचिन्तयत्
कथं नु मे वरः पुत्रो लोकश्रेष्ठो भवेदिति
MBh 1.114.16
दैवे पुरुषकारे च लोकोऽयं हि प्रतिष्ठितः
तत्र दैवं तु विधिना कालयुक्तेन लभ्यते
MBh 1.114.17
इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम्
अप्रमेयबलोत्साहो वीर्यवानमितद्युतिः
MBh 1.114.18
तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम्
यं दास्यति स मे पुत्रं स वरीयान्भविष्यति
कर्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः
MBh 1.114.19
ततः पाण्डुर्महातेजा मन्त्रयित्वा महर्षिभिः
दिदेश कुन्त्याः कौरव्यो व्रतं सांवत्सरं शुभम्
MBh 1.114.20
आत्मना च महाबाहुरेकपादस्थितोऽभवत्
उग्रं स तप आतस्थे परमेण समाधिना
MBh 1.114.21
आरिराधयिषुर्देवं त्रिदशानां तमीश्वरम्
सूर्येण सह धर्मात्मा पर्यवर्तत भारत
MBh 1.114.22
तं तु कालेन महता वासवः प्रत्यभाषत
पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम्
MBh 1.114.23
देवानां ब्राह्मणानां च सुहृदां चार्थसाधकम्
सुतं तेऽग्र्यं प्रदास्यामि सर्वामित्रविनाशनम्
MBh 1.114.24
इत्युक्तः कौरवो राजा वासवेन महात्मना
उवाच कुन्तीं धर्मात्मा देवराजवचः स्मरन्
MBh 1.114.25
नीतिमन्तं महात्मानमादित्यसमतेजसम्
दुराधर्षं क्रियावन्तमतीवाद्भुतदर्शनम्
MBh 1.114.26
पुत्रं जनय सुश्रोणि धाम क्षत्रियतेजसाम्
लब्धः प्रसादो देवेन्द्रात्तमाह्वय शुचिस्मिते
MBh 1.114.27
एवमुक्ता ततः शक्रमाजुहाव यशस्विनी
अथाजगाम देवेन्द्रो जनयामास चार्जुनम्
MBh 1.114.28
जातमात्रे कुमारे तु वागुवाचाशरीरिणी
महागम्भीरनिर्घोषा नभो नादयती तदा
MBh 1.114.29
कार्तवीर्यसमः कुन्ति शिबितुल्यपराक्रमः
एष शक्र इवाजेयो यशस्ते प्रथयिष्यति
MBh 1.114.30
अदित्या विष्णुना प्रीतिर्यथाभूदभिवर्धिता
तथा विष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः
MBh 1.114.31
एष मद्रान्वशे कृत्वा कुरूंश्च सह केकयैः
चेदिकाशिकरूषांश्च कुरुलक्ष्म सुधास्यति
MBh 1.114.32
एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः
मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम्
MBh 1.114.33
ग्रामणीश्च महीपालानेष जित्वा महाबलः
भ्रातृभिः सहितो वीरस्त्रीन्मेधानाहरिष्यति
MBh 1.114.34
जामदग्न्यसमः कुन्ति विष्णुतुल्यपराक्रमः
एष वीर्यवतां श्रेष्ठो भविष्यत्यपराजितः
MBh 1.114.35
तथा दिव्यानि चास्त्राणि निखिलान्याहरिष्यति
विप्रनष्टां श्रियं चायमाहर्ता पुरुषर्षभः
MBh 1.114.36
एतामत्यद्भुतां वाचं कुन्तीपुत्रस्य सूतके
उक्तवान्वायुराकाशे कुन्ती शुश्राव चास्य ताम्
MBh 1.114.37
वाचमुच्चारितामुच्चैस्तां निशम्य तपस्विनाम्
बभूव परमो हर्षः शतशृङ्गनिवासिनाम्
MBh 1.114.38
तथा देवऋषीणां च सेन्द्राणां च दिवौकसाम्
आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः
MBh 1.114.39
उदतिष्ठन्महाघोषः पुष्पवृष्टिभिरावृतः
समवेत्य च देवानां गणाः पार्थमपूजयन्
MBh 1.114.40
काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा
प्रजानां पतयः सर्वे सप्त चैव महर्षयः
MBh 1.114.41
भरद्वाजः कश्यपो गौतमश्च; विश्वामित्रो जमदग्निर्वसिष्ठः
यश्चोदितो भास्करेऽभूत्प्रनष्टे; सोऽप्यत्रात्रिर्भगवानाजगाम
MBh 1.114.42
मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः
दक्षः प्रजापतिश्चैव गन्धर्वाप्सरसस्तथा
MBh 1.114.43
दिव्यमाल्याम्बरधराः सर्वालंकारभूषिताः
उपगायन्ति बीभत्सुमुपनृत्यन्ति चाप्सराः
गन्धर्वैः सहितः श्रीमान्प्रागायत च तुम्बुरुः
MBh 1.114.44
भीमसेनोग्रसेनौ च ऊर्णायुरनघस्तथा
गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः
MBh 1.114.45
युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा
त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः
MBh 1.114.46
कलिः पञ्चदशश्चात्र नारदश्चैव षोडशः
सद्वा बृहद्वा बृहकः करालश्च महायशाः
MBh 1.114.47
ब्रह्मचारी बहुगुणः सुपर्णश्चेति विश्रुतः
विश्वावसुर्भुमन्युश्च सुचन्द्रो दशमस्तथा
MBh 1.114.48
गीतमाधुर्यसंपन्नौ विख्यातौ च हहाहुहू
इत्येते देवगन्धर्वा जगुस्तत्र नरर्षभम्
MBh 1.114.49
तथैवाप्सरसो हृष्टाः सर्वालंकारभूषिताः
ननृतुर्वै महाभागा जगुश्चायतलोचनाः
MBh 1.114.50
अनूना चानवद्या च प्रियमुख्या गुणावरा
अद्रिका च तथा साची मिश्रकेशी अलम्बुसा
MBh 1.114.51
मरीचिः शिचुका चैव विद्युत्पर्णा तिलोत्तमा
अग्निका लक्षणा क्षेमा देवी रम्भा मनोरमा
MBh 1.114.52
असिता च सुबाहुश्च सुप्रिया सुवपुस्तथा
पुण्डरीका सुगन्धा च सुरथा च प्रमाथिनी
MBh 1.114.53
काम्या शारद्वती चैव ननृतुस्तत्र संघशः
मेनका सहजन्या च पर्णिका पुञ्जिकस्थला
MBh 1.114.54
क्रतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि
उम्लोचेत्यभिविख्याता प्रम्लोचेति च ता दश
उर्वश्येकादशीत्येता जगुरायतलोचनाः
MBh 1.114.55
धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा
इन्द्रो विवस्वान्पूषा च त्वष्टा च सविता तथा
MBh 1.114.56
पर्जन्यश्चैव विष्णुश्च आदित्याः पावकार्चिषः
महिमानं पाण्डवस्य वर्धयन्तोऽम्बरे स्थिताः
MBh 1.114.57
मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः
अजैकपादहिर्बुध्न्यः पिनाकी च परंतपः
MBh 1.114.58
दहनोऽथेश्वरश्चैव कपाली च विशां पते
स्थाणुर्भवश्च भगवान्रुद्रास्तत्रावतस्थिरे
MBh 1.114.59
अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः
विश्वेदेवास्तथा साध्यास्तत्रासन्परिसंस्थिताः
MBh 1.114.60
कर्कोटकोऽथ शेषश्च वासुकिश्च भुजंगमः
कच्छपश्चापकुण्डश्च तक्षकश्च महोरगः
MBh 1.114.61
आययुस्तेजसा युक्ता महाक्रोधा महाबलाः
एते चान्ये च बहवस्तत्र नागा व्यवस्थिताः
MBh 1.114.62
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्चासितध्वजः
अरुणश्चारुणिश्चैव वैनतेया व्यवस्थिताः
MBh 1.114.63
तद्दृष्ट्वा महदाश्चर्यं विस्मिता मुनिसत्तमाः
अधिकां स्म ततो वृत्तिमवर्तन्पाण्डवान्प्रति
MBh 1.114.64
पाण्डुस्तु पुनरेवैनां पुत्रलोभान्महायशाः
प्राहिणोद्दर्शनीयाङ्गीं कुन्ती त्वेनमथाब्रवीत्
MBh 1.114.65
नातश्चतुर्थं प्रसवमापत्स्वपि वदन्त्युत
अतः परं चारिणी स्यात्पञ्चमे बन्धकी भवेत्
MBh 1.114.66
स त्वं विद्वन्धर्ममिमं बुद्धिगम्यं कथं नु माम्
अपत्यार्थं समुत्क्रम्य प्रमादादिव भाषसे
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 113
- Next chapter · Ādi-Parva Ch 115 →
Sources and Connected Readings
Continue from these 66 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 1.114local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷