🪷 Mahābhārata · Ādi-Parva · Chapter 106
The Book of the Beginning · Parva 1 · 14 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 14 Shlokas
MBh 1.106.1
[वै]
धृतराष्ट्राभ्यनुज्ञातः सवबाहुविजितं धनम
भीष्माय सत्यवत्यै च मात्रे चॊपजहार सः
MBh 1.106.2
विदुराय च वै पाण्डुः परेषयाम आस तद धनम
सुहृदश चापि धर्मात्मा धनेन समतर्पयत
MBh 1.106.3
ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम
शुभैः पाण्डुजितै रत्नैस तॊषयाम आस भारत
MBh 1.106.4
ननन्द माता कौसल्या तम अप्रतिमतेजसम
जयन्तम इव पौलॊमी परिष्वज्य नरर्षभम
MBh 1.106.5
तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः
अश्वमेध शतैर ईजे धृतराष्ट्रॊ महामखैः
MBh 1.106.6
संप्रयुक्तश च कुन्त्या च माद्र्या च भरतर्षभ
जिततन्द्रीस तदा पाण्डुर बभूव वनगॊचरः
MBh 1.106.7
हित्वा परासादनिलयं शुभानि शयनानि च
अरण्यनित्यः सततं बभूव मृगया परः
MBh 1.106.8
स चरन दक्षिणं पार्श्वं रम्यं हिमवतॊ गिरेः
उवास गिरिपृष्ठेषु महाशालवनेषु च
MBh 1.106.9
रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन
करेण्वॊर इव मध्यस्थः शरीमान पौरंदरॊ गजः
MBh 1.106.10
भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम
विचित्रकवचं वीरं परमास्त्र विदं नृपम
देवॊ ऽयम इत्य अमन्यन्त चरन्तं वनवासिनः
MBh 1.106.11
तस्य कामांश च भॊगांश च नरा नित्यम अतन्द्रिताः
उपजह्रुर वनान्तेषु धृतराष्ट्रेण चॊदिताः
MBh 1.106.12
अथ पारशवीं कन्यां देवलस्य महीपतेः
रूपयौवन संपन्नां स शुश्रावापगा सुतः
MBh 1.106.13
ततस तु वरयित्वा ताम आनाय्य पुरुषर्षभः
विवाहं कारयाम आस विदुरस्य महामतेः
MBh 1.106.14
तस्यां चॊत्पादयाम आस विदुरः कुरुनन्दनः
पुत्रान विनयसंपन्नान आत्मनः सदृशान गुणैः
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 105
- Next chapter · Ādi-Parva Ch 107 →
🪷 जय व्यास भगवान् 🪷