🪷 Mahābhārata · Ādi-Parva · Chapter 101

The Book of the Beginning · Parva 1 · 28 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 28 Shlokas

MBh 1.101.1
जनमेजय उवाच किं कृतं कर्म धर्मेण येन शापमुपेयिवान् कस्य शापाच्च ब्रह्मर्षे शूद्रयोनावजायत
MBh 1.101.2
वैशंपायन उवाच बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः
MBh 1.101.3
स आश्रमपदद्वारि वृक्षमूले महातपाः ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः
MBh 1.101.4
तस्य कालेन महता तस्मिंस्तपसि तिष्ठतः तमाश्रमपदं प्राप्ता दस्यवो लोप्त्रहारिणः अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ
MBh 1.101.5
ते तस्यावसथे लोप्त्रं निदधुः कुरुसत्तम निधाय च भयाल्लीनास्तत्रैवान्वागते बले
MBh 1.101.6
तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः
MBh 1.101.7
तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम् कतरेण पथा याता दस्यवो द्विजसत्तम तेन गच्छामहे ब्रह्मन्पथा शीघ्रतरं वयम्
MBh 1.101.8
तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः न किंचिद्वचनं राजन्नवदत्साध्वसाधु वा
MBh 1.101.9
ततस्ते राजपुरुषा विचिन्वानास्तदाश्रमम् ददृशुस्तत्र संलीनांस्तांश्चोरान्द्रव्यमेव च
MBh 1.101.10
ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन्
MBh 1.101.11
तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति स वध्यघातैरज्ञातः शूले प्रोतो महातपाः
MBh 1.101.12
ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ
MBh 1.101.13
शूलस्थः स तु धर्मात्मा कालेन महता ततः निराहारोऽपि विप्रर्षिर्मरणं नाभ्युपागमत् धारयामास च प्राणानृषींश्च समुपानयत्
MBh 1.101.14
शूलाग्रे तप्यमानेन तपस्तेन महात्मना संतापं परमं जग्मुर्मुनयोऽथ परंतप
MBh 1.101.15
ते रात्रौ शकुना भूत्वा संन्यवर्तन्त सर्वतः दर्शयन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम् श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि
MBh 1.101.16
ततः स मुनिशार्दूलस्तानुवाच तपोधनान् दोषतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति
MBh 1.101.17
राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः प्रसादयामास तदा शूलस्थमृषिसत्तमम्
MBh 1.101.18
यन्मयापकृतं मोहादज्ञानादृषिसत्तम प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि
MBh 1.101.19
एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः कृतप्रसादो राजा तं ततः समवतारयत्
MBh 1.101.20
अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे
MBh 1.101.21
स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः स तेन तपसा लोकान्विजिग्ये दुर्लभान्परैः अणीमाण्डव्य इति च ततो लोकेषु कथ्यते
MBh 1.101.22
स गत्वा सदनं विप्रो धर्मस्य परमार्थवित् आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः
MBh 1.101.23
किं नु तद्दुष्कृतं कर्म मया कृतमजानता यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम्
MBh 1.101.24
धर्म उवाच पतंगकानां पुच्छेषु त्वयेषीका प्रवेशिता कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन
MBh 1.101.25
अणीमाण्डव्य उवाच अल्पेऽपराधे विपुलो मम दण्डस्त्वया कृतः शूद्रयोनावतो धर्म मानुषः संभविष्यसि
MBh 1.101.26
मर्यादां स्थापयाम्यद्य लोके धर्मफलोदयाम् आ चतुर्दशमाद्वर्षान्न भविष्यति पातकम् परेण कुर्वतामेवं दोष एव भविष्यति
MBh 1.101.27
वैशंपायन उवाच एतेन त्वपराधेन शापात्तस्य महात्मनः धर्मो विदुररूपेण शूद्रयोनावजायत
MBh 1.101.28
धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः दीर्घदर्शी शमपरः कुरूणां च हिते रतः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 28 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 1.101local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷