🪷 Atharvaveda 7.56

Saptama-Kāṇḍa · Sūkta 56

विषभैषज्यम्। १-८ अथर्वा।वृश्चिकादयः, २ वनस्पतिः, ४ ब्रह्मणस्पतिः। अनुष्टुप्, ४ विराट्-प्रस्तारपङ्क्तिः। तिर॑श्चिराजेरसि॒तात् पृदा॑कोः॒ परि॒ संभृ॑तम्। तत् क॒ङ्कप॑र्वणो वि॒षमि॒यं वी॒रुद॑नीनशत्॥१॥ इ॒यं वी॒रुन्मधु॑जाता मधु॒श्चुन्म॑धु॒ला म॒धूः । सा विह्रु॑तस्य भेष॒ज्यथो॑ मशक॒जम्भ॑नी ॥२॥ यतो॑ द॒ष्टं यतो॑ धी॒तं तत॑स्ते॒ निर्ह्व॑यामसि । अ॒र्भस्य॑ तृप्रदं॒शिनो॑ म॒शक॑स्यार॒सं वि॒षम्॥३॥ अ॒यं यो व॒क्रो विप॑रु॒र्व्यऽङ्गो॒ मुखा॑नि व॒क्रा वृ॑जि॒ना कृ॒णोषि॑ । तानि॒ त्वं ब्र॑ह्मणस्पत इ॒षीका॑मिव॒ सं न॑मः ॥४॥ अ॒र॒सस्य॑ श॒र्कोट॑स्य नी॒चीन॑स्योप॒सर्प॑तः । वि॒षं ह्य॑१स्यादि॒ष्यथो॑ एनमजीजभम्॥५॥ न ते॑ बा॒ह्वोर्बल॑मस्ति॒ न शी॒र्षे नोत म॑ध्य॒तः । अथ॒ किं पा॒पया॑मु॒या पुच्छे॑ बिभर्ष्यर्भ॒कम्॥६॥ अ॒दन्ति॑ त्वा पि॒पीलि॑का॒ वि वृ॑श्चन्ति मयू॒र्यः । सर्वे॑ भल ब्रवाथ॒ शार्को॑टमर॒सं वि॒षम्॥७॥ य उ॒भाभ्यां॑ प्र॒हर॑सि॒ पुच्छे॑न चा॒स्येऽन च । आ॒स्ये॒३ न ते॑ वि॒षं किमु॑ ते पुच्छ॒धाव॑सत्॥८॥
— Atharvaveda Kāṇḍa 7 · Sūkta 56 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷