🪷 Atharvaveda 7.38

Saptama-Kāṇḍa · Sūkta 38

केवलः पतिः। १-५ अथर्वा। वनस्पतिः। अनुष्टुप्, ३ चतुष्पदा उष्णिक्। इ॒दं ख॑नामि भेष॒जं मां॑प॒श्यम॑भिरोरु॒दम्। प॒रा॒य॒तो नि॒वर्त॑नमाय॒तः प्र॑ति॒नन्द॑नम्॥१॥ येना॑ निच॒क्र आ॑सु॒रीन्द्रं॑ दे॒वेभ्य॒स्परि॑ । तेना॒ नि कु॑र्वे॒ त्वाम॒हं यथा॒ तेऽसा॑नि॒ सुप्रि॑या ॥२॥ प्र॒तीची॒ सोम॑मसि प्र॒तीच्यु॒त सूर्य॑म्। प्र॒तीची॒ विश्वा॑न् दे॒वान् तां त्वा॒च्छाव॑दामसि ॥३॥ अ॒हं व॑दामि॒ नेत् त्वं स॒भाया॒मह॒ त्वं वद॑ । ममेदस॒स्त्वं केव॑लो॒ नान्यासां॑ की॒र्तया॑श्च॒न॥४॥ यदि॒ वासि॑ तिरोज॒नं यदि॑ वा न॒द्यऽस्ति॒रः । इ॒यं ह॒ मह्यं॒ त्वामोष॑धिर्ब॒द्ध्वेव॒ न्यान॑यत्॥५॥
— Atharvaveda Kāṇḍa 7 · Sūkta 38 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷