इषुनिष्कासनम्।
१-३ अथर्वा। रुद्रः। अनुष्टुप्, ३ आर्षी भुरिगुष्णिक्।
यां ते॑ रु॒द्र इषु॒मास्य॒दङ्गे॑भ्यो॒ हृद॑याय च ।
इ॒दं ताम॒द्य त्वद् व॒यं विषू॑चीं॒ वि वृ॑हामसि ॥१॥
यास्ते॑ श॒तं ध॒मन॒योऽङ्गा॒न्यनु॒ विष्ठि॑ताः ।
तासां॑ ते॒ सर्वा॑सां व॒यं निर्वि॒षाणि॑ ह्वयामसि ॥२॥
नम॑स्ते रु॒द्रास्य॑ते॒ नमः॒ प्रति॑हितायै ।
नमो॑ विसृ॒ज्यमा॑नायै॒ नमो॒ निप॑तितायै ॥३॥
— Atharvaveda Kāṇḍa 6 · Sūkta 90 · Śaunaka shākhā · Devanāgarī yathārtha