भैषज्यम्।
१-४ भगः। २ सूर्यः, चन्द्रमाः, २ रोहिणी, ३ रामायणी। अनुष्टुप्, ४ एकावसाना द्विपदा निचृदार्च्यनुष्टुप्।
अप॑चितः॒ प्र प॑तत सुप॒र्णो व॑स॒तेरि॑व ।
सूर्यः॑ कृ॒णोतु॑ भेष॒जं च॒न्द्रमा॒ वोऽपो॑च्छतु ॥१॥
एन्येका॒ श्येन्येका॑ कृ॒ष्णैका॒ रोहि॑णी॒ द्वे।
सर्वा॑सामग्रभं॒ नामावी॑रघ्नी॒रपे॑तन ॥२॥
अ॒सूति॑का रामाय॒ण्यऽप॒चित् प्र प॑तिष्यति ।
ग्लरि॒तः प्र प॑तिष्यति॒ स ग॑लु॒न्तो न॑शिष्यति ॥३॥
वी॒हि स्वामाहु॑तिं जुषा॒णो मन॑सा॒ स्वाहा॒ मन॑सा॒ यदि॒दं जु॒होमि॑ ॥४॥
— Atharvaveda Kāṇḍa 6 · Sūkta 83 · Śaunaka shākhā · Devanāgarī yathārtha