कामात्मा
१-३ जमदग्निः। कामात्मा, २ सुपर्णः, ३ द्यावापृथिवी, सूर्यः। पथ्यापङ्क्तिः।
यथा॑ वृ॒क्षं लिबु॑जा सम॒न्तं प॑रिषस्व॒जे।
ए॒वा परि॑ ष्वजस्व॒ मां यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ॥१॥
यथा॑ सुप॒र्णः प्र॒पत॑न् प॒क्षौ नि॒हन्ति॒ भूम्या॑म्।
ए॒वा नि ह॑न्मि ते॒ मनो॒ यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ॥२॥
यथे॒मे द्यावा॑पृथि॒वी स॒द्यः प॒र्येति॒ सूर्यः॑ ।
ए॒वा पर्ये॑मि ते॒ मनो॒ यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ॥३॥
— Atharvaveda Kāṇḍa 6 · Sūkta 8 · Śaunaka shākhā · Devanāgarī yathārtha