शत्रुनाशनम्।
१-३ अथर्वा। १ ब्रह्मणस्पतिः, २-३ सोमः। अनुष्टुप्।
यो॒३स्मा॑न् ब्र॑ह्मणस्प॒तेऽदे॑वो अभि॒मन्य॑ते ।
सर्वं॒ तं र॑न्धयासि मे॒ यज॑मानाय सुन्व॒ते॑॥१॥
यो नः॑ सोम सुशं॒सिनो॑ दुः॒शंस॑ आ॒दिदे॑शति ।
वज्रे॑णास्य॒ मुखे॑ जहि॒ स संपि॑ष्टो॒ अपा॑यति ॥२॥
यो नः॑ सोमाभि॒दास॑ति॒ सना॑भि॒र्यश्च॒ निष्ट्यः॑ ।
अप॒ तस्य॒ बलं॑ तिर म॒हीव॒ द्यौर्व॑ध॒त्मना॑ ॥३॥
— Atharvaveda Kāṇḍa 6 · Sūkta 6 · Śaunaka shākhā · Devanāgarī yathārtha