औषधिः।
१-३ अथर्वा। रुद्रः, अरुन्धती औषधिः। अनुष्टुप्।
अ॒न॒डुद्भ्य॒स्त्वं प्र॑थ॒मं धे॒नुभ्य॒स्त्वम॑रुन्धति ।
अधे॑नवे॒ वय॑से॒ शर्म॑ यच्छ॒ चतु॑ष्पदे ॥१॥
शर्म॑ यच्छ॒त्वोष॑धिः स॒ह दे॒वीर॑रुन्ध॒ती।
कर॒त् पय॑स्वन्तं गो॒ष्ठम॑य॒क्ष्मां उ॒त पूरु॑षान्॥२॥
वि॒श्वरू॑पां सु॒भगा॑म॒च्छाव॑दामि जीव॒लाम्।
सा नो॑ रु॒द्रस्या॒स्तां हे॒तिं दू॒रं न॑यतु॒ गोभ्यः॑ ॥३॥
— Atharvaveda Kāṇḍa 6 · Sūkta 59 · Śaunaka shākhā · Devanāgarī yathārtha