🪷 Atharvaveda 6.23Ṣaṣṭha-Kāṇḍa · Sūkta 23अपां भैषज्यम्। १-३ शन्तातिः। आपः। १ अनुष्टुप्, २ त्रिपदा गायत्री, ३ परोष्णिक्। स॒स्रुषी॒स्तद॒पसो॒ दिवा॒ नक्तं॑ च स॒स्रुषीः॑ । वरे॑ण्यक्रतुर॒हम॒पो दे॒वीरुप॑ ह्वये ॥१॥ ओता॒ आपः॑ कर्म॒ण्याऽमु॒ञ्चन्त्वि॒तः प्रणी॑तये । स॒द्यः कृ॑ण्व॒न्त्वेत॑वे ॥२॥ दे॒वस्य॑ सवि॒तुः स॒वे कर्म॑ कृण्वन्तु॒ मानु॑षाः । शं नो॑ भवन्त्व॒प ओष॑धीः शि॒वाः ॥३॥ — Atharvaveda Kāṇḍa 6 · Sūkta 23 · Śaunaka shākhā · Devanāgarī yathārthaNavigation← Previous: AV 6.22Next: AV 6.24 →Kāṇḍa 6 Sūkta-indexAtharvaveda master-index/four-vedas · the Catur-Veda-Pūrṇatā🪷 ॐ 🪷