🪷 Atharvaveda 6.142

Ṣaṣṭha-Kāṇḍa · Sūkta 142

अन्नसमृद्धिः। १-३ विश्वामित्रः। वायुः। अनुष्टुप्। उच्छ्र॑यस्व ब॒हुर्भ॑व॒ स्वेन॒ मह॑सा यव । मृ॒णी॒हि विश्वा॒ पात्रा॑णि॒ मा त्वा॑ दि॒व्याशनि॑र्वधीत्॥१॥ आ॒शृ॒ण्वन्तं॒ यवं॑ दे॒वं यत्र॑ त्वाच्छा॒वदा॑मसि । तदुच्छ्र॑यस्व॒ द्यौरि॑व समु॒द्र इ॑वै॒ध्यक्षि॑तः ॥२॥ अक्षि॑तास्त उप॒सदोऽक्षि॑ताः सन्तु रा॒शयः॑ । पृ॒णन्तो॒ अक्षि॑ताः सन्त्व॒त्तारः॑ स॒न्त्वक्षि॑ताः ॥३॥
— Atharvaveda Kāṇḍa 6 · Sūkta 142 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷