🪷 Atharvaveda 6.140

Ṣaṣṭha-Kāṇḍa · Sūkta 140

सुमङ्गलौ दन्तौ। १-३ अथर्वा। ब्रह्मणस्पतिः, दन्ताः। (अनुष्टुप् १) १ उरोबृहती, २ उपरिष्टाज्ज्योतिष्मती त्रिषटुप्, ३ आस्तारपङ्क्तिः। यौ व्या॒घ्रवव॑रूढौ जिघ॑त्सतः पि॒तरं॑ मा॒तरं॑ च । यौ दन्तौ ब्रह्मणस्पते शि॒वौ कृ॑णु जातवेदः ॥१॥ व्री॒हिम॑त्तं॒ यव॑मत्त॒मथो॒ माष॒मथो॒ तिल॑म्। ए॒ष वां॑ भा॒गो निहि॑तो रत्न॒धेया॑य दन्तौ॒ मा हिं॑सिष्टं पि॒तरं॑ मा॒तरं॑ च ॥२॥ उप॑हूतौ स॒युजौ॑ स्यो॒नौ दन्तौ॑ सुम॒ङ्गलौ॑ । अ॒न्यत्र॑ वां घो॒रं त॒न्वः॑१ परै॑तु दन्तौ॒ मा हिं॑सिष्टं पि॒तरं॑ मा॒तरं॑ च ॥३॥
— Atharvaveda Kāṇḍa 6 · Sūkta 140 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷