🪷 Atharvaveda 6.137

Ṣaṣṭha-Kāṇḍa · Sūkta 137

केशवर्धनम्। १-३ वीतहव्यः। वनस्पतिः। अनुष्टुप्। यां ज॒मद॑ग्नि॒रख॑नद् दुहि॒त्रे के॑श॒वर्ध॑नीम्। तां वी॒तह॑व्य॒ आभ॑र॒दसि॑तस्य गृ॒हेभ्यः॑ ॥१॥ अ॒भीशु॑ना॒ मेया॑ आसन् व्या॒मेना॑नु॒मेयाः॑ । केशा॑ न॒डा इ॑व वर्धन्तां शी॒र्ष्णस्ते॑ असि॒ताः परि॑ ॥२॥ दृंह॑ मूल॒माग्रं॑ यच्छ॒ वि मध्यं॑ यामयौषधे । केशा॑ न॒डा इ॑व वर्धन्तां शी॒र्ष्णस्ते॑ असि॒ताः परि॑ ॥३॥
— Atharvaveda Kāṇḍa 6 · Sūkta 137 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷