🪷 Atharvaveda 6.134

Ṣaṣṭha-Kāṇḍa · Sūkta 134

शत्रुनाशनम्। १-३ शक्रः। वज्रः। १ परानुष्टुप् त्रिष्टुप्, २ अनुष्टुप्, ३ भुरिक् त्रिपदा गायत्री। अ॒यं वज्र॑स्तर्पयतामृ॒तस्यावा॑स्य रा॒ष्ट्रमप॑ हन्तु जीवि॒तम्। शृ॒णातु॑ ग्री॒वाः प्र शृ॑णातू॒ष्णिहा॑ वृ॒त्रस्ये॑व॒ शची॒पतिः॑ ॥१॥ अध॑रोऽधर॒ उत्त॑रेभ्यो गू॒ढः पृ॑थि॒व्या मोत् सृपत्। वज्रे॒णाव॑हतः शयाम्॥२॥ यो जि॒नाति॒ तमन्वि॑च्छ यो जि॒नाति॒ तमिज्ज॑हि । जि॒न॒तो व॑ज्र॒ त्वं सी॒मन्त॑म॒न्वञ्च॒मनु॑ पातय ॥३॥
— Atharvaveda Kāṇḍa 6 · Sūkta 134 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷