🪷 Atharvaveda 6.123

Ṣaṣṭha-Kāṇḍa · Sūkta 123

सौमनसम्। १-५ भृगुः। विश्वे देवाः। त्रिष्टुप्, ३ द्विपदा साम्म्यनुष्टुप्, ४ एकावसाना द्विपदा प्राजापत्या भुरिगनुष्टु। ए॒तं स॑धस्थाः॒ परि॑ वो ददामि॒ यं शे॑व॒धिमा॒वहा॑ज्जा॒तवे॑दाः । अ॒न्वा॒ग॒न्ता यज॑मानः स्व॒स्ति तं स्म॑ जानीत पर॒मे व्योऽमन्॥१॥ जा॒नी॒त स्मै॑नं पर॒मे व्योऽम॒न् देवाः॒ सध॑स्था वि॒द लो॒कमत्र॑ । अ॒न्वा॒ग॒न्ता यज॑मानः स्व॒स्तीऽष्टापू॒र्तं स्म॑ कृणुता॒विर॑स्मै ॥२॥ देवाः॒ पित॑रः॒ पित॑रो॒ देवाः॑ । यो अस्मि॒ सो अ॑स्मि ॥३॥ स प॑चामि॒ स द॑दामि॒ । स य॑जे॒ स द॒त्तान्मा यू॑षम्॥४॥ नाके॑ राज॑न् प्रति॑ तिष्ठ॒ तत्रै॒तत् प्रति॑ तिष्ठतु । वि॒द्धि पू॒र्तस्य॑ नो राज॒न्त्स दे॑व सु॒मना॑ भव ॥५॥
— Atharvaveda Kāṇḍa 6 · Sūkta 123 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷