🪷 Atharvaveda 6.103

Ṣaṣṭha-Kāṇḍa · Sūkta 103

शत्रुनाशनम्। १-३ उच्छोचनः।इन्द्राग्नी, १ बृहस्पतिः, सविता, मित्रोः, अर्यमा, भगः,अश्विनौ, २-३ इन्द्रः, अग्निः। अनुष्टुप्। सं॒दानं॑ वो॒ बृह॒स्पतिः॑ सं॒दानं॑ सवि॒ता क॑रत्। सं॒दानं॑ मि॒त्रो अ॑र्य॒मा सं॒दानं॒ भगो॑ अ॒श्विना॑ ॥१॥ सं प॑र॒मान्त्सम॑व॒मानथो॒ सं द्या॑मि मध्य॒मान्। इन्द्र॒स्तान् पर्य॑हा॒र्दाम्ना॒ तान॑ग्ने॒ सं द्या॒ त्वम्॥२॥ अ॒मी ये युध॑मा॒यन्ति॑ के॒तून् कृ॒त्वानी॑क॒शः । इन्द्र॒स्तान् पर्य॑हा॒र्दाम्न॒ तान॑ग्ने॒ सं द्या॒ त्वम्॥३॥
— Atharvaveda Kāṇḍa 6 · Sūkta 103 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷