🪷 Atharvaveda 5.22

Pañcama-Kāṇḍa · Sūkta 22

तक्मनाशनम्। १-१४ भृग्वङ्गिराः। तक्मनाशनः। अनुष्टुप्, १ भुरिक् त्रिष्टुप्, २ त्रिष्टुप्, ५ विराट्, पथ्याबृहती। अ॒ग्निस्त॒क्मान॒मप॑ बाधतामि॒तः सोमो॒ ग्रावा॒ वरु॑णः पू॒तद॑क्षाः । वेदि॑र्ब॒र्हिः स॒मिधः॒ शोशु॑चाना॒ अप॒ द्वेषां॑स्यमु॒या भ॑वन्तु ॥१॥ अ॒यं यो विश्वा॒न् हरि॑तान् कृ॒णोष्यु॑च्छो॒चय॑न्न॒ग्निरि॑वाभिदु॒न्वन्। अधा॒ हि त॑क्मन्नर॒सो हि भू॒या अधा॒ न्यऽङ्ङध॒राङ् वा॒ परे॑हि ॥२॥ यः प॑रु॒षः पा॑रुषे॒योऽवध्वं॒स इ॑वारु॒णः । त॒क्मानं॑ विश्वधावीर्याध॒राञ्चं॒ परा॑ सुवा ॥३॥ अ॒ध॒राञ्चं॒ प्र हि॑णोमि॒ नमः॑ कृ॒त्वा त॒क्मने॑ । श॒क॒म्भ॒रस्य॑ मुष्टि॒हा पुन॑रेतु महावृ॒षान्॥४॥ ओको॑ अस्य॒ मूज॑वन्त॒ ओको॑ अस्य महावृ॒षाः । याव॑ज्जा॒तस्त॑क्मं॒स्तावा॑नसि॒ बल्हि॑केषु न्योच॒रः ॥५॥ तक्म॒न् व्याऽल॒ वि ग॑द॒ व्यऽङ्ग॒ भूरि॑ यावय । दा॒सीं नि॒ष्टक्व॑रीमिछ॒ तां वज्रे॑ण॒ सम॑र्पय ॥६॥ तक्म॒न् मूज॑वतो गच्छ॒ बल्हि॑कान् वा परस्त॒राम्। शू॒द्रामि॑च्छ प्रफ॒र्व्यं॑१ तां त॑क्म॒न् वीऽव धूनुहि ॥७॥ म॒हा॒वृ॒षान् मूज॑वतो॒ बन्ध्व॑द्धि प॒रेत्य॑ । प्रैतानि॑ त॒क्मने॑ ब्रूमो अन्यक्षे॒त्राणि॒ वा इ॒मा॥८॥ अ॒न्य॒क्षे॒त्रे न र॑मसे व॒शी सन्मृ॑डयासि नः । अभू॑दु॒ प्रार्थ॑स्त॒क्मा स ग॑मिष्यति॒ बल्हि॑कान्॥९॥ यत् त्वं शी॒तोऽथो॑ रू॒रः स॒ह का॒सावे॑पयः । भी॒मास्ते॑ तक्मन् हे॒तय॒स्ताभिः॑ स्म॒ परि॑ वृङ्ग्धि नः ॥१०॥ मा स्मै॒तान्त्सखी॑न् कुरुथा ब॒लासं॑ का॒समु॑द्यु॒गम्। मास्मातो॒ऽर्वाङैः पुन॒स्तत् त्वा॑ तक्म॒न्नुप॑ ब्रुवे ॥११॥ तक्म॒न् भ्रात्रा॑ ब॒लासे॑न॒ स्वस्रा॒ कासि॑कया स॒ह। पा॒प्मा भ्रातृ॑व्येण स॒ह गछा॒मुमर॑णं॒ जन॑म्॥१२॥ तृती॑यकं वितृती॒यं स॑द॒न्दिमु॒त शा॑र॒दम्। त॒क्मानं॑ शी॒तं रू॒रं ग्रैष्मं॑ नाशय॒ वार्षि॑कम्॥१३॥ ग॒न्धारि॑भ्यो॒ मूज॑व॒द्भ्योऽङ्गे॑भ्यो म॒गधे॑भ्यः । प्रै॒ष्यन् जन॑मिव शेव॒धिं त॒क्मानं॒ परि॑ दद्मसि ॥१४॥
— Atharvaveda Kāṇḍa 5 · Sūkta 22 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷