🪷 Atharvaveda 4.6

Caturtha-Kāṇḍa · Sūkta 6

विषघ्नम्। १-८ गरत्मान्। तक्षकः, १ ब्राह्मणः, २ द्यावापृथिवी, सप्तसिन्धवः, ३ सुपर्णः, ४-८ विषम्। अनुष्टुप्। ब्रा॒ह्म॒णो ज॑ज्ञे प्रथ॒मो दश॑शीर्षो॒ दशा॑स्यः । स सोमं॑ प्रथ॒मः प॑पौ॒ स चकारार॒सं वि॒षम्॥१॥ याव॑ती॒ द्यावा॑पृथि॒वी व॑रि॒म्णा यावत् स॒प्त सिन्ध॑वो वितष्ठि॒रे। वाचं॑ वि॒षस्य॒ दूष॑णीं॒ तामि॒तो निर॑वादिषम्॥२॥ सु॒प॒र्णस्त्वा॑ ग॒रुत्मा॒न्विष॑ प्रथ॒ममा॑वयत्। नामी॑मदो॒ नारू॑रुप उ॒तास्मा॑ अभवः पि॒तुः ॥३॥ यस्त॒ आस्य॒त् पञ्चा॑ङ्गुरिर्व॒क्राच्चि॒दधि॒ धन्व॑नः । अ॒प॒स्क॒म्भस्य॑ श॒ल्यान्निर॑वोचम॒हं वि॒षम्॥४॥ श॒ल्याद्वि॒षं निर॑वोचं प्राञ्ज॑नादु॒त प॒र्ण॒धेः । अ॒पा॒ष्ठाच्छृङ्गा॒त्कुल्म॑ला॒न्निर॑वोचमहं वि॒ष॑म्॥५॥ अ॒र॒सस्त॑ इषो श॒ल्योऽथो॑ ते अ॒र॒सं वि॒षम्। उ॒तार॒सस्य॑ वृ॒क्षस्य॒ धनु॑ष्टे अरसार॒सम्॥६॥ ये अपी॑ष॒न् ये अदि॑ह॒न् य आस्य॒न् ये अ॒वासृ॑जन्। सर्वे॒ ते वध्र॑यः कृ॒ता वध्रि॑र्विषगि॒रिः कृतः ॥७॥ वध्र॑यस्ते खनि॒तारो॒ वध्रि॒स्त्वम॑स्योषधे । वध्रिः॒ स पर्व॑तो गि॒रिर्यतो॑ जा॒तमि॒दं वि॒षम्॥८॥
— Atharvaveda Kāṇḍa 4 · Sūkta 6 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷